________________
सरः ३] भेदस्य लौकिकत्वादप्राप्तप्रापकशास्त्रविषयत्व नास्तीतिमतानुवाद., तन्निरासश्च 263
तत्त्वमुक्ताकलापः भेदः प्रत्यक्षसिद्धो न निगमविषयः स्यादिति त्वर्भकोक्तिः
सर्वार्थसिद्धिः एवमपि मुग्धान्प्रति मुग्धैरुपादेशि । भेदस्तावद् भूतभौतिकादिष्वासंसारं प्रसिद्धः ; अतीन्द्रियनिष्ठोऽप्यसौ सामान्यतः प्रत्यक्ष एव ; अन्यथा कथं भेदसामान्यप्रयुक्तभेदशब्दवाच्यत्वादि; व्याप्तिग्रहणायोगात् । व्याप्तिग्रहणरूपं हि प्रत्यक्षं दृष्टादृष्टसकलव्यक्तिगोचरमिति धूमानुमानादिष्वपि समर्थयन्ते । सावयवत्वानित्यत्वव्याप्तिग्रहणमतीन्द्रियसावयवपक्षीकारेण शिक्षयन्ति । तदिह भेदमात्रस्य प्रत्यक्षविषयत्वादप्राप्तप्रापक. स्वभावशास्त्रगोचरत्वं न संभवतीति । एतदनुभाष्योपालभते--भेद इति । तुः सर्वशास्त्रनिर्विषयत्वप्रसङ्गावहत्वं द्योतयति । प्रायेण हि तवापि यत्किचिद्भेदविषयं सर्व शास्त्रम् ; अन्ततः परप्रतिपन्नादन्यदेव हि सर्वशास्त्रे
आनन्ददायिनी पूर्वसङ्गत्याऽऽह-एवमपीति । सामान्यत इति । सामान्यप्रत्यासत्त्येत्यर्थः । कथमन्यथेति । भेदत्वसामान्यप्रत्यासत्त्या तदुपस्थित्यभावे तत्यातीन्द्रियस्य भेदशब्दवाच्यत्वग्रहो न स्यात् । अनुमानस्यापि तन्मूलकव्याप्तितग्रहमूलतया तदभावे प्रवृत्त्ययोगादिति भावः । तत्र नैयायिकसम्मतिमाह-व्याप्तीति । कक्षीकार:-अन्तर्भावः । प्रायेण हीति । ज्योतिष्टोमादिवाक्यमपि यागस्वर्गसाधनत्वादिभेदगोचरमित्यर्थः । परप्रतिपन्नादन्यत्-स्वातिरिक्तप्रमाणागम्यमित्यर्थः ।
1 अन्यथा मेद-पा.
प्रत्यक्षमदृष्ट-पा.
3 यागस्स्वर्ग-ग.