SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 264 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे सव्या नायक तत्त्वमुक्ताकलापः प्रख्यातादन्यमेनं प्रथयति यदसौ त्वन्मताईतवनः । __ सर्वार्थसिद्धिः प्रख्याप्यम् । तद्यदि यस्यकस्यचिद्भेदान्तरस्य प्रत्यक्षतया सामान्यतः सर्वभेदग्रहणात् शास्त्रस्य विषयलोपः स्यात् , लुप्येत तर्हि सकललौकिकवैदिकशास्त्रविषयः । व्याकरणादिव्युत्पत्तिलोपादद्वैत शास्त्रमप्यशक्यारम्भं स्यात् । अतो भेदस्य शास्त्रविषयत्वं निराचिकीर्षता सिषाधयिषितस्याभेदस्यापि तन्निराकृतमेवेति । अथ सर्वशास्त्रे प्रतिपत्तॄणामन्यप्रतिपन्नादन्यद्विशेषतः प्रतिपित्साह प्रतिपाद्यमिति पश्यसि, तदा मन्मतेऽपि लोकप्रसिद्धगजतुरगनीलपीतादिभेदातिरिक्तः परावरादिभेद उपनिषद्धोषणीयः। तदिदमाह-प्रख्यातादिति । असावित्यौचित्या आनन्ददायिनी शास्त्रस्य-भेदशास्त्रस्य । लुप्यतेति । सर्वस्याप्युक्तगत्या प्रत्यक्षादिविषयत्वादिति भावः। लौकिकं-स्मृत्युक्तं, वैदिकं वेदगम्यम् । किं चाद्वैतशास्त्रगतपदानि व्याकरणादिव्युत्पाद्यानि चेत्तद्ग्रहणसमयेज्ञातत्वानिर्विषयं स्यात् । अव्युत्पाद्यत्वे व्युत्पत्तिरहितस्यार्थशून्यत्वात् ध्वन्यादिवन्निविषयं स्यात् इत्याह -व्याकरणादीति। आदिपदेन उपमानकोशादि। ननु व्याकरणादिना व्युत्पत्तिरस्तु। तथाऽपि न निर्विषयत्वं शास्त्रस्य, अद्वैतस्य वाक्यार्थत्वेन पदार्थत्वाभावादिति शङ्कां पदार्थस्य स्वरूपानतिरेकादभेदस्य नापूर्वत्वमिति न सविषयत्वमित्युपसंहरति-अत इति । सिद्धान्तेऽद्वैतस्य प्रतिपाद्यत्वानङ्गीकारात् ___1 शास्त्रस्याप्यनारम्भस्स्यात्-पा. शास्त्रवेद्यत्वं-पा. तदाऽस्मन्मते-पा. 4 द्यानीति चे-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy