________________
सरः ३] प्रत्यक्षविषप्रत्वादेव शास्त्राविषयत्वोक्तौ तदीयसिद्धान्तविरोधाशुद्भावनन् 265
तत्त्वमुक्ताकलापः सन्मात्रग्राहि चाक्ष नियमयसि ततो ब्रह्म दृश्यं मृषा स्यात्
किं ते श्रुत्या तदानीं
सर्वार्थसिद्धिः निगमः परामृश्यते । त्वन्मताद्वैतवदिति प्रतिबन्दिपरम् । तथा हियदि भेदमात्रस्य प्रसिद्धत्वादलौकिकभेदोऽपि शास्त्रविषयो न स्यात् , अभेदमात्रस्यापि प्रतिवस्तु सर्वलोकप्रसिद्धत्वात् त्वदभिमतमद्वैतमपि तदविषयः स्यात् । यदि प्रसिद्धविलक्षणमद्वैत तत्प्रतिपाद्यं पश्यसि, भेदेऽपि तादृशे तथैव दीयतां दृष्टिरिति । प्रत्यक्षविषयत्वादेव शास्त्राविषयत्वे परस्य सिद्धान्तविरोधमपि सूचयति-सन्मात्रेति । भेदस्य भ्रान्तिविषयत्वं सन्मात्रस्य प्रत्यक्षविषत्वं च त्वया स्थाप्यते । अतस्तस्यापि शास्त्रविषयत्वं त्वया दुस्साधमिति भावः । अस्तु सन्मात्रमनागमविषयः, भेदनिषेधमात्रे त्रय्यन्ततात्पर्यात् ; सन्मानं तु प्रत्यक्षत एव सिध्यतीति, तत्राह-तत इति । यदि प्रत्यक्षत एव ब्रह्मणस्सिद्धिः, तदा दृश्यत्वसामान्यसंगृहीत्या युष्मत्पदव्या मिथ्यात्वं दुस्तरं स्यादिति भावः । अन्यमपि सिद्धान्तविरोधमाह-किमिति । प्रत्यक्षत एव ब्रह्मस्वरूपसिद्धौ
आनन्ददायिनी परसिद्धान्तस्य दूष्यत्वात् कथं निदर्शनमित्यत्राह-प्रतिबन्दिपरमिति । सन्मात्रस्य च प्रत्यक्षत्वं प्रत्यक्षप्रमितिविषयत्वम् ।