Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
-
~
276 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक___.. ~~~ . . . . ~~~. .. ~
सर्वार्थसिद्धिः न्तरादिस्वीकारे गौरवं, यथाश्रुतमात्रसंग्रहणात् । पृथिव्यादिभेदस्तु शब्दादिगुणतारतम्यसारूप्यात् ; युष्मदिष्टाक्षरस्थाने च प्रकृत्यामिव पृथिव्यादीनामसन्निधानात् । न च तत्त्वसंख्याधिक्यप्रसङ्गो दोषः, कालवदेव पृथक्त्वोपपत्तेः ।
" त षड्शिकमित्याहुः सप्तविंशमथापरे"
इत्यधिक संख्याम्नानात् । न चैवं षट्त्रिंशत्तत्त्ववादस्यापि स्वीकार्यत्वम् , अनाप्तागमप्रणीतस्यानादरणीयत्वात् ; आप्तागमे त्वधिकगणनमनतिविप्रकृष्ठावान्तरपरिणामख्यापनाभिप्रायं बोद्धव्यम् । लोकं
आनन्ददायिनी साधकमिति भावः । यथाश्रुतेति । कल्पनायामेव गौरवस्य दोषत्वमिति भावः । प्राकृतत्वप्रत्यभिज्ञानं निराचष्टे-पृथिव्यादीति । तथा च मुरूपृथिवीवाभावान्न प्राकृतत्वप्रत्यभिज्ञेति भावः । प्रत्यभिज्ञायाश्शङ्काऽपि नास्तीत्याह-यूष्मदिष्टेति । " तदक्षरे" इत्यादिस्थले पृथिव्यादिशब्दाश्रवणात् तन्निबन्धना कथ प्रत्यभिज्ञेति भावः । केचित्तु अक्षरस्थाने अक्षरावस्थाविशिष्टे पृथिव्याद्यवस्थासम्बन्धाभावात्कथ प्रत्यभिज्ञेति वदन्ति । ननु शुद्धसत्त्वस्य न तावत्त्रिगुणेऽन्तर्भावः । नापि कालात्मादौ। तथा चाति रेके सख्याविरोधः स्यादित्यत्राह - न चेति । संख्याविरोधं परिहरति-तमिति । अनाप्तागमप्रणीतस्येति । अनाप्तागमप्रतिपन्नस्येत्यर्थः । केचित्त अनाप्तप्रणीतस्येति पाठस्साधुरिति वदन्ति । अनतिविप्रकृष्टेति । अत्यन्तभेदानह । प्रकृत्यवस्थाभेदाभिप्रायमित्यर्थः । अनुमानादिभिः प्राकृतत्वं साध्यत इत्यत्राह-लोकमिति। नरशिरःकपालशुचित्वानुमानवदागमबाधित
1 सख्यानवणात्-पा 2 गुणान्त-ग. अतिरिक्तसख्या-ग.

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426