SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ - ~ 276 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक___.. ~~~ . . . . ~~~. .. ~ सर्वार्थसिद्धिः न्तरादिस्वीकारे गौरवं, यथाश्रुतमात्रसंग्रहणात् । पृथिव्यादिभेदस्तु शब्दादिगुणतारतम्यसारूप्यात् ; युष्मदिष्टाक्षरस्थाने च प्रकृत्यामिव पृथिव्यादीनामसन्निधानात् । न च तत्त्वसंख्याधिक्यप्रसङ्गो दोषः, कालवदेव पृथक्त्वोपपत्तेः । " त षड्शिकमित्याहुः सप्तविंशमथापरे" इत्यधिक संख्याम्नानात् । न चैवं षट्त्रिंशत्तत्त्ववादस्यापि स्वीकार्यत्वम् , अनाप्तागमप्रणीतस्यानादरणीयत्वात् ; आप्तागमे त्वधिकगणनमनतिविप्रकृष्ठावान्तरपरिणामख्यापनाभिप्रायं बोद्धव्यम् । लोकं आनन्ददायिनी साधकमिति भावः । यथाश्रुतेति । कल्पनायामेव गौरवस्य दोषत्वमिति भावः । प्राकृतत्वप्रत्यभिज्ञानं निराचष्टे-पृथिव्यादीति । तथा च मुरूपृथिवीवाभावान्न प्राकृतत्वप्रत्यभिज्ञेति भावः । प्रत्यभिज्ञायाश्शङ्काऽपि नास्तीत्याह-यूष्मदिष्टेति । " तदक्षरे" इत्यादिस्थले पृथिव्यादिशब्दाश्रवणात् तन्निबन्धना कथ प्रत्यभिज्ञेति भावः । केचित्तु अक्षरस्थाने अक्षरावस्थाविशिष्टे पृथिव्याद्यवस्थासम्बन्धाभावात्कथ प्रत्यभिज्ञेति वदन्ति । ननु शुद्धसत्त्वस्य न तावत्त्रिगुणेऽन्तर्भावः । नापि कालात्मादौ। तथा चाति रेके सख्याविरोधः स्यादित्यत्राह - न चेति । संख्याविरोधं परिहरति-तमिति । अनाप्तागमप्रणीतस्येति । अनाप्तागमप्रतिपन्नस्येत्यर्थः । केचित्त अनाप्तप्रणीतस्येति पाठस्साधुरिति वदन्ति । अनतिविप्रकृष्टेति । अत्यन्तभेदानह । प्रकृत्यवस्थाभेदाभिप्रायमित्यर्थः । अनुमानादिभिः प्राकृतत्वं साध्यत इत्यत्राह-लोकमिति। नरशिरःकपालशुचित्वानुमानवदागमबाधित 1 सख्यानवणात्-पा 2 गुणान्त-ग. अतिरिक्तसख्या-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy