________________
सरः ३] वैकुण्ठस्याण्डान्तर्वर्तित्वनिरसनं, नित्या नेत्यविभागोपपत्तिकथन च
277
तत्त्वमुक्ताकलापः कलया तत्र देहायवस्थाः ।
सर्वार्थसिद्धिः वैकुण्ठनामानम्" इति प्रकृत्य "अप्राकृतं सुरैर्वन्धम्" इति विशेष्यते । अत एवाण्डान्तर्वतिलोकविशेषत्वशङ्काऽपि निधूता । " न तस्य प्राकृता मूर्तिः " इत्यनेनापि द्रव्यान्तर सिध्यति । न चात्र बाधकमस्ति ; अतश्शुद्धाशुद्धविभूतियुगलं व्यवस्थितमिति । नन्वेवमपि नित्यानित्यविभतिविभागोऽनुपपन्नः, अत्राप्यात्मस्वरूपादेर्नित्यत्वात् , तत्राप्यैच्छदेहादेरनित्यत्वात् , तत्राह-कलयेति । नित्यानित्यप्राचुर्यविवक्षया तथा विभाग इति भावः । न हि तत्रत्यानां पृथिव्यादीनामीश्वरदेहादीनां चात्रत्यवत् सृष्टिप्रलयौ। उक्तं हि महाभारते
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते तमेकं पुरुषं वासुदेवं सनातनम् ।। इति । भूतशब्दोऽत्र कार्यांशपरः । अत एव जीवलयोक्तिरौपचारिकी ; वासुदेवशब्दोऽत्र परविग्रहविशिष्टपरः ; स्वरूपनित्यत्वस्य
आनन्ददायिनी मिति भाव । माध्वपक्षं निराचष्टे- अण्डान्तर्वर्तीति । प्रकृतिबहिर्भावादिति भावः । मूर्तिविशेषे प्राकृत त्वनिषेधादप्यण्डान्तर्वति न भवतीत्याह -- न तस्येति । नन्वस्मदादिप्राकृतमूर्त्यपेक्षया वैलक्षण्यं बोध्यत इत्यत्राह-न चात्रेति । तथा सति प्राकृतशब्दस्य सामान्यस्य निष्कारणस्संकोचो दोषः स्यादिति भावः। ननु भूतशब्दस्य पृथिव्यादिपरत्वेऽहकारादरनित्यता न स्यात् , उपलक्षणत्वे वस्तुमात्रपरतया प्रकृत्यादेरप्यनित्यता स्यादिन्यत्राह -भूतशब्द इति। ननु वासुदेवशब्दो वसत्यस्मिन्निति व्युत्पत्त्या सकलजगद्विशिष्टवाची कथं
1 न्तर्वृत्ति-पा. विशेषेप्राकृतत्वविशेषादण्डा-ग,