________________
278
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलाप: सष्टेः प्रागेकमेवेत्यपि निगलववस्त्रक्ष्यमाणव्यपेक्षं
सर्वार्थसिद्धिः जीवेष्वपि समत्वात् । विशिष्टलयस्य वासुदेवे विश्वविशिष्टेऽपि सिद्धत्वात् परविग्रहनित्यत्वोक्तिस्तदनुबन्ध्युपलक्षणार्था । ननु कारणवाक्येष्वेकत्वावधारणादनन्तरं च बहुभवनसङ्कल्पोक्तेनित्यस्थानादिव्यपदेशस्त्रिदशामरत्वन्यायेन नेतव्य इति त्रय्यन्तकुदृष्टीनां सर्वेषां व्यावघोषी, तत्राह-सृष्टेरिति । अयं भावः-सृष्टिकालापेक्षया स्रक्ष्य
आनन्ददायिनी परविग्रहमात्रविशिष्टपर इत्यत्राह--विशिष्टलयस्येति । जीवन्यायेन प्राकृतविशिष्टस्य लयसंभवात् तदन्यविग्रहविशिष्टमात्रपरत्वमित्यर्थः । नन्वेनावता प्रकृतपृथिव्यादीनां नित्यत्वे किमायातमित्यत्राह--परविग्रहेति । परविग्रहस्य पृथिव्याद्यात्मकत्वात्तन्नित्यत्वे पृथिव्यादिनित्यत्वमपि सिद्धमिति भावः ।।
अत्र मतद्वयं-पञ्चोपनिषदात्मकानि पृथिव्यादीनि पञ्चैवेश्वरनित्यमुक्तादिनित्यानित्यशरीररूपादिनाऽवस्थितानि अनित्यानि मुक्तशरीराणि ईश्वरनित्ययोनित्यानित्यरूपाणीत्येकं मतम् । अपरं तु प्राकृतवच्चतुर्विशतितत्वात्मकानि महदादीनीन्द्रियादीनि च 'सन्तीति । इदं मंतद्वंयमपि न्यायसिद्धाञ्जने सम्यगाचार्यरुपवर्णितमिति तत्र द्रष्टव्यम् । नन्विति । एकमेवाद्वितीयमिति द्वितीयनिषेधस्य प्राकृतस्वादिविशेषनिर्देशाभावात् , तथा बहुभवनसंकल्पेऽपि प्राकृतत्वादिविशेषाश्रवणादिति भावः । व्यावघोषी व्यत्ययेन घोषः । कर्मव्यतीहारे णचि रूपम् । ननु " सदेव सोम्य" इति वाक्ये, इदमिति वर्तमानस्य जगतो निर्देशात् कथं स्रक्ष्यमाणव्यपेक्षमिति भाविनिश इत्यत्राह-अयं भाव इति । ननु मायोपाधिविलयोऽस्तु
1 सन्ति च-ग.