SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सरः ३] अव्यक्ततमोमध्यगेश्वरमुक्तभोगस्थानकल्मायादवप्रकाशमतानुवादत्तन्निरासश्च 275 सर्वार्थसिद्धिः " अक्षरे परमे व्योमन् " इत्यव्यक्ततमसोरन्तरालेऽधीतस्त्रिगुणपरिणतिविशेष ईश्वरस्य मुक्तानां च भोगस्थानतयाऽऽन्नायत इति यादवप्रकाशोतं युक्तम्, अक्षरशब्दप्रत्यभिज्ञानस्यात्र बाघकाभावात् , शुद्धसत्त्वव्यपदेशस्य रजस्तमसोरभिभूततयोपपत्तः, अप्राकृतस्थानक्लप्तौ च गौरवात्, तत्रापि पृथिव्यादिभेदाभ्युपगमेन प्राकृतत्व ज्ञायत इति । अत्र ब्रूमः --अक्षरशब्दप्रत्यभिज्ञामात्र त्वतिप्रसञ्जकम् । अस्ति चात्र " परमे व्योमन् " इति समभिव्याहारो बाधकः ; न हि तमोनन्तरस्याक्षरस्य व्योमत्वम् ; उपचारस्तु गत्यभावे । अम्मत्पक्षे त्वक्षरपरमविशेषणाभ्यां प्रसिद्धव्योमवैलक्षण्यं युक्तम् । नच स्थाना आनन्ददायिनी स्थान" इति व्यपदेशः कथम् ? प्राकृतत्वेन रजस्तमोमिश्रत्वादित्यत्राहशुद्धसत्त्वेति । ननु गौणव्यपदेशो दोष इत्यत्राह-अप्राकृतेति । ननु प्रामाणिकत्वान्न दोष इत्यत्राह-तत्रापीति । प्राकृतत्व एव प्रमाणमिति भावः । अत्र किमक्षरशब्दमात्रप्रत्यभिज्ञा विवक्षिता, उत बाधकामावसहिता, यद्वा साधकान्तरसहिता, नाद्य इत्याहअक्षरेति । अक्षरशब्दस्य वर्णादावपि प्रयुक्तरेकान्ततः प्रत्यभिज्ञा न भवतीति भावः । न द्वितीय इत्याह-आस्ति चेति । तदेवोपपादयति-न हीति । तमोनन्तरस्य " अक्षरं तमसि" इति तमस्सनिहितस्येत्यर्थः । तस्य व्योमशब्दवाच्यत्वाभावादिति भावः । तृतीयं दूषयति-अस्मत्पक्ष इति । यथा परशब्दादिविशेषणमहिन्ना प्रसिद्धजीवविलक्षणस्येश्वरस्यात्मत्वं, यथा वा प्रथमविशेषणमहिम्ना "वषट्कर्तुः प्रथमभक्षः” इत्यात्य भक्षान्तरत्वं तथाऽत्रापीति न तव 1 न तत्साध-ग. 18*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy