________________
274
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः
तत्स्मृतमपि
सर्वार्थसिद्धिः संक्षिप्तं षडर्थसंक्षेपे " व्यतिरेकाधिकरणनिवासशब्दैः " इति । " तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते, विष्णोर्यत्परमं पदम् " इत्यादिप्रसिद्धिसूचनार्थस्तच्छन्दः । अस्यार्थस्योपबृंहणप्रतिष्ठितत्वमाह-स्मृतमपीति । यथोक्तमुत्तरश्रीरामायणे-" तच्चाकाशं सनातनम्" इति । महाभारते च “दिव्यं स्थानमजरं चाप्रमेयम् " इति । भगवच्छास्त्रसंहितासु च विस्तरस्सिद्धः । ननु
आनन्ददायिनी दिति। पूर्वोक्तसर्वश्रुत्युक्तमित्यर्थः । व्यतिरेक:-तद्विष्णोः पदमिति भेदः, यत्र देवानामित्यत्र यत्रेत्यधिकरणशब्दः, पर्यङ्कविद्यायां निवासशब्दः। केचित्तु-'दिव्यं स्थानमजरं चाप्रमेयम्' इत्युपबृंहणस्थस्थानशब्देनाधिकरणशब्द उक्तः । क्षयशब्दो निवासशब्देनोक्त इत्याहुः । तद्विप्रास इति । तत्-तत्र । “सुपां सुलुक" इति सप्तम्या लुक् । विप्रासः विप्राः । " आजसेरसुक्" नित्यसूरयः । विपन्यवः स्तुवानाः। जागृवांसः निद्रारूपाज्ञानविधुराः। समिन्धते । तत् विष्णोः परमं पदमित्यर्थः । केचित्तु-यत्तच्छब्दयोयथास्थानमेवान्वयमाहुः । आदिशब्दन “यो अस्याध्यक्षः परमे व्योमन्" इत्यादिसङ्गहः । ननु ‘तदक्षरे परमे व्योमन्' इति श्रुत्याऽक्षराख्यं परमव्योमस्थानं भवति । अक्षरशब्दश्वावस्थाविशेषवतीं प्रकृतिमेवाह, “अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते" इति लयवाक्येऽव्यक्ततमसोरन्तरालावस्थाविशिष्टद्रव्यस्याक्षरशब्दवाच्यतावगमात् । तथा च ' तमसः परस्तात्' इत्येतत्तमःपूर्ववाचीति शङ्कते-नन्विति । ननु तर्हि "शुद्धसत्त्वमयं