SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सर: ३] नित्यविभूतिसद्भावग्राहकप्रमाणसङ्गहणम् 273 तत्त्वमुक्ताकलापः स्थानं नित्यं श्रुतं सर्वार्थसिद्धिः 'शुद्धस्य' इत्यनुकथनमशुद्धद्रव्यानुप्रवेशात् तत्सृष्टयादिभिश्च स्वतन्त्रस्याप्यशुद्धिशङ्कामपनयति । 'अशुद्धसृष्टिक्रमः कथितः' इत्यत्र शुद्धसृष्टिक्रमस्तु वक्तव्य इति शेष । 'शुद्धसत्त्वे तु तत्त्वे' इत्यनुवादेन तद्गाहकप्रमाणमपि सूच्यते । तस्याप्राकृतत्वम्थापकमाह-.-स्थानमिति । श्रूयते हि " तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इति । तदिदं सदापश्यत्सूरिविशिष्टस्थान विधानार्थमिति वेदार्थसंग्रहे स्थापितम् । एवम् " आदित्यवर्णं तमस. परस्तात् " " क्षयं तमस्य रजसः पराके" इत्यादि । शाव्यायनिनश्च एवमामनन्ति " सहस्रम्थूणे विमते दृढ उग्रे यत्र देवानामधिदेव आस्ते " इति । कौषीतकिनां पर्यऋविद्या चात्र पठिनव्या । सर्वमेतत् आनन्ददायिनी निरूपणमर्हतीत्यर्थः । अनुवादस्य प्रयोजनं दर्शयति-अनुकथनमिति । नन्वर्थवादत्वान्नोक्ताथै साधयति । किं च विधित्वे साधकाभावो विशिष्टविधौ गौरवं चेत्यत्राह-तदिदमिति । विघिस्तु धारणे पूर्वत्वात् ' इति न्यायेन विधित्वात् पदशब्दस्वारस्यात् सदापश्यत्त्वबलाच्च "यदाग्नेयोऽष्टाकपालः" इनिवद्विशिष्टविधित्वमित्यर्थः । क्षयं तमस्येत्यादि । अस्य परब्रह्मण' क्षयं स्थानं तं ज्ञानात्मकं रजसः पराके तमसः परस्तादिति भास्करीयव्याख्या । रजश्शब्दः प्रकृतिपरः । आदिशब्देन "ते ह नाकं महिमानः सचन्ते" इत्यादिग्रहः । सर्वमेत 1र्थत्वं साध-ग. SARVARTHA VOL. IV. 18
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy