________________
272
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः रक्षोभ्यः प्रेषितोऽयं रघुपतिविशिखो राहुमीमांसकेभ्यः॥ ६०॥
शुद्धस्याशुद्धसृष्टिक्रम इति कथितश्शुद्धसत्त्वे तु तत्त्वे
सर्वार्थसिद्धिः यथा रघुपतिविशिखः तद्वत् सर्वत्राप्रतिहत इति तात्पर्यम् । राहुमीमांसकशब्देन सशिरस्कवेदनिर्णयप्रवृत्तमीमांसा शास्त्रशरीरे विशकलितशिरोमात्रसंग्रहीतृत्वं सूच्यते ॥६० ॥
इति प्रपञ्चमिथ्यात्ववादिनां बाधकविकल्पोदाहरणम् .
एवं प्रसक्तानुप्रसक्तं परिसमाप्य परमप्रकृतसृष्टिविशेषोक्ति संगमयन् प्रकरणारम्भोद्दिष्टलक्षितनित्यविभूतिपरीक्षा परिमितनिरूप्यत्वादौचित्याच्च प्रधानप्राप्यप्रापकभूतपरतत्त्वनिरूपणानन्तरं निवेशयति-शुद्धस्येति ।
आनन्ददायिनी निर्विशेषत्वं न स्यात् , असत्यत्वे शून्यवादप्रसङ्गः । एवं सत्यत्वमसत्यं सत्य वेत्यादिक्रमेण प्रवर्तनीयास्तको अनुक्ता ज्ञेयाः। रक्षोभ्य इत्यादिमूलम् --- राहुमीमांसका एव रक्षांसि, स्वय ग्रन्थकघुपतिः, तर्का एव विशिखा इति भावः ॥ ६० ॥
विश्वमिथ्यात्ववादिनां बाधकविकल्पोदाहरणम् .
अवसरसङ्गतिं दर्शयति-एवमिति । ' ननु प्रत्यक्पराक्च' इति विभज्य पुनः 'नित्या भूतिर्मतिश्च' इति पृथगुद्देशादीश्वरपरिच्छदेऽन्तर्भावः कथमित्यत्राह-परिमितनिरूप्यत्वादिति। तथा च न पृथक्
1 शरीरेऽपि श-पा. सक्ति-पा. ३ च पृथ-ग.