________________
सरः ३] विश्वमिथ्यात्ववादिसिद्धान्ते वेदमोक्षस्वयंप्रकाशत्वादिषुविकल्पदोःस्थ्यकथनम् 271
तत्त्वमुक्ताकलापः साध्याऽसाध्याऽपि मुक्तिस्त्वदुपगमहता तत्सम चान्यदित्थं
सर्वार्थसिद्धिः सत्यत्वस्थापनं सिध्यदिति । प्रमाणत्वं तु तस्य सत्यमसत्यं वा ? आये ब्रह्मणः स्वरूपभूतमन्यद्वा ? नाद्यः, ब्रह्मणशब्दधर्मत्वायोगात् । न द्वितीयः, सदद्वैतव्याघातात् । असत्यत्वे तु वृत्तमेवोत्तरम् । मुक्तिश्च ब्रह्मण उपायसाध्या ? उत स्वरूपत्वादसाध्या वा? आये भावरूपा अभावरूपावा? पूर्वत्राद्वैतभङ्गः । उत्तरत्र सत्यमिथ्याप्रतियोगिकत्वविकल्पे प्राच्योऽपसिद्धान्तहतः ; पश्चिमम्तु प्रध्वंसमिथ्यात्वमपि स्थापयेदेव । अलब्धस्वरूपस्य हि प्रध्वंसोऽपि स्वरूपं न लभेत । एव स्वयंप्रकाशस्वादिषु स्वतस्सिद्धत्वान्यतस्सिद्धत्वादिविकल्पदौःस्थ्यं दुस्तरमित्याहतत्समं चान्यदिति । उक्तानुक्त तर्काणां मोघत्वं व्यञ्जयन्निगमयतिइत्थमिति । रक्षोभ्य इत्यनेन स्वव्याघातकमायापवर्तकत्व व्यज्यते ।
आनन्ददायिनी नुबन्धिनी । आद्यं दूषयति-प्रमाणत्वं विति। प्रमाणत्वमपीत्यर्थः । प्राच्यः सत्यप्रतियोगिकः, सत्यत्वानभ्युपगमादिति भावः । अलब्धेति । अन्यथा शशशृङ्गादेरपि ध्वंसप्रसङ्गादिति भावः । स्वयंप्रकाशत्वादीत्यादिशब्देन नित्यत्वादयो विवक्षिताः। स्वतस्सिद्धत्वे स्वयं प्रमितिर्न वा, प्रामाण्यं च व्यावहारिकं न वेत्यादिविकल्पे सर्वस्यापि स्वतस्सिद्धिप्रसङ्गः । परतस्सिद्धत्वेऽप्येवं प्रसङ्ग इति दुस्तरमिति भावः । ब्रह्म सत्यमसत्यं वा सधर्मकं निर्धर्मकं वेत्यादि विकल्प्य सत्यत्वे
1 लभते-पा. स्वतस्सिद्धत्वादि-पा. तर्काणाममोघ-पा. व्यज्यते । रघु--पा.