Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 323
________________ २९२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ४ अतः कयाsपि काका निदर्शनरूपया प्रज्ञाप्यत इत्यावेदयति, तमेवंप्रकारं समर्थ यस्मादनुपमलक्ष्मीप्रयत्नमाजः परमर्षयः परिहीणच्छद्मानः समस्तज्ञेयग्राहिणा केवलज्ञानेनावगच्छन्ति स्वरूपतो न पुनर्निर्दिशन्त्यन्यस्मै, परमनिरुद्धत्वा दिति अल्पत्वादित्यर्थः । यावत् तत्स्वरूपप्रतिपादनाय भाषाद्रव्याण्यादीयन्ते तावदसङ्ख्येयास्तेऽतिक्रामन्तीत्यर्थः । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । कायकरणप्रयोगेण भाषाद्रव्याण्यादाय वाक्पर्याप्तिकरणव्यापारेण निस्सृजति, तयोश्च निसर्गग्रहणविषययोः करणं व्यापारयितुं न शक्यतेऽत्यल्पत्वात्, अतः परमनिरुद्धे तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गासम्भवादवगतिरेव केवला न प्रज्ञापनमस्तीति । अथवाऽऽर्षप्रसिद्धया तुन्नागदार कपट्टशाटिकापाटननिदर्शनात् समयप्रज्ञापना कार्या । एवं तावत् समयः सर्वकालभेदादिवसेयः । मा० - ते त्यसङ्ख्येया आवलिका । ताः सङ्ख्येया उच्छ्वासः, तथा निःश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदधें व नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः । तौ दौ शुक्लकृष्णौ मासः । आवलिकादिविचार: तौ द्वौ मासावृतुः । ते प्रयोऽयनम् । ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धित चन्द्राभिवर्धिताख्या युगम् । तन्मध्येऽन्ते चाधिकमासकौ । सूर्यसावन चन्द्रनक्षत्राभिर्वर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वाङ्गम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एवं तान्ययुतकमलनालनकुमुदतुट्यङडाववाहाहाह्ह्चतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः । २४५८ '३७७३' टी० - ते घासङ्ख्येयाः समया आवलिका भण्यते सा च जघन्ययुक्त का सङ्ख्ये - यकसमयप्रमाणा भवति । ताः सङ्ख्येयाः (४४४६ 14) सत्य आवलिका एक उच्छ्वासो निःश्वासो वा ऊर्ध्वाधोगमनभेदात् । तावुच्छ्वासनिःश्वासावित्थंप्रमाणौ शारीरबलयुक्तस्यानुपहतकरणग्रामस्य नीरुजस्य मध्यंवयोऽनुप्राप्तस्य मनो दुःखेनानभिभूतस्य पुरुषस्य प्राणो नाम कालविशेषो भवति, बलवदादिविशेषणानि च प्रति विशिष्टोच्छ्वासपरिग्रहणाय, अन्यथा कर्तु भेदादनेकरूपाः समुच्छ्रासनिःश्वासा इति न शक्येत प्रागस्वरूपं निरूपयितुमनवस्थितत्वात्, अत एवंप्रकारस्य पुंसो यावच्छासनिःश्वासाविति । उक्तलक्षणाः प्राणास्ते सप्तसङ्ख्याकाः स्तोको नाम कालविशेषः। ते स्तोकाः सप्त लवोऽभिधीयते । लवानामष्टाधिका त्रिंशलवार्धं च नालिका भवति । नालिकाद्वयं मुहूर्तः । त्रिंशन्मुहूर्तमहोरात्रम् । पञ्चदशभिरहोरात्रैः पक्षः । शुक्लकृष्णौ द्वौ पक्षौ मासः । मासद्वयमृतुर्वसन्तादिभेदः । ऋतुत्रयमयनम् । अयनद्वयं संवत्सरः । ते १ 'तुशगदारुक् पदशाटिका' इति क-पाठः । २ 'ऽष्टाधिकात्रिंश' इति क- पाठः । ३ जघन्यमध्यमोत्कृष्टपरीत्तयुक्तासंख्यातासंख्यात भेदेनासंख्यातस्य नवविधस्वास्, चतुर्थं चैतत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518