Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 397
________________ ३६६ तत्त्वार्थाधिगमसूत्रम् [ अभ्यायः ५ सति भवत्येव कार्य ब्यणुकादि ज्ञानादि वा, अन्यथा तु न भवत्येव, यतो यस्मिन् सति भवत्येव यस्य सद्भावस्तदभावे च न भवत्येव यत् तत् कारणमितरत् कार्यम् , एवं च यहच्छया प्राप्तानां व्योमाराममहीध्रादीनां कारणभावोऽन्यत्र निराकृतोऽवसेयः। एवमप्यनुपप ...... नमवधारणं यस्मिन् सति भवत्येव कार्य न भवत्येव चान्यथेति, यतः रणलक्षणम् करवीरजन्मारुणोत्पलफलात् स्वकाण्डात् स्वबीजाच दृष्टम्, दूर्वा च गोलोमाविलोमादिभ्यः, सरस्तु शृङ्गादिति, अत्रोच्यते-परमाणुषु सत्सु भवत्येवेदमात्मनि चेत्यदोषः, सङ्क्षपात् परिणामिकारणापेक्षाः परिणामाः प्रतिस्वमासादयन्त्युपजननं कारणवैकल्ये तु न प्रादुष्यन्ति मन्त्रप्रतिबद्धविषमारणशक्तिवत् । इत्थं निरवा कार्यकारणलक्षणम् । यान्यपि करीनिमित्तापेक्षाख्यानि कुम्भकारदण्डाकाशादीनि तान्यप्यनयैव दिशा योजनीयानीति न कश्चिद् विरोध इति सूचनीयः सूक्ष्म आगमसमधिगम्योऽस्मदादिभिः, नित्यश्चेति द्रव्यास्तिकनयापेक्षयाऽनुज्झितमूर्तिः, पर्यायापेक्षया तु नीलादिभिराकारैरनित्य एवेति, न ततः परमणीयोऽस्ति द्रव्यमिति परमाणुः, पञ्चानां रसानां दूयोर्गन्धयोः पञ्चविधस्य वर्णस्यान्यतमेनैकेन रसादिना युक्तः, चतुर्णा स्पर्शानां मध्ये स्पर्शद्वयेनाविरुद्धेन युक्तः कार्येणास्मदादिप्रत्यक्षदृश्येन बादरपरिणामभाजाऽनेकविधेन लिङ्ग्यते-समधिगम्यत इति । अणुस्कन्धभेदप्रतिपादनायेदमाह भा०-तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एवेति ॥ २५ ॥ टी०-तत्राणव इत्यादि । अबद्धाः-परस्परेणासंयुक्ताः परमाणवः, स्कन्धाः पुनबोदरपरिणामपरिणता अष्टस्पर्शा बद्धा एवाणुसङ्घाताः, सूक्ष्मपरिणामभाजस्तु चतुःस्पशी एव भवन्ति बद्धाश्चे(एवे)ति परस्परसंहत्या व्यवस्थिता इति ॥ २५ ॥ भा०-कथं पुनरेतद् द्वैविध्यं भवतीति ? । अत्रोच्यते-स्कन्धास्तावत् ॥ अत्राह टी०-अत्राहेत्यादिसम्बन्धग्रन्थः । अज्ञः प्रश्नयति-परमाणवः स्कन्धाश्चेति किंकृ. तोऽयं विशेषस्तुल्ये पुद्गलद्रव्यत्वे ? मूरिराह-स्कन्धास्तावदित्यादि । क्रमप्राप्तेषु परमाणुषु वक्तव्येषु स्कन्धास्तावद् बहुवक्तव्यत्वात् प्रथममुच्यन्ते, तावच्छब्दः क्रमभेदावद्योतनार्थः, यथा च ते स्कन्धाः समुद्भवन्ति तथा सूत्रऽत्र दर्शयति सूत्रम्-सङ्घातभेदेभ्य उत्पद्यन्ते ॥५-२६ ॥ भा०-सङ्घाताद् भेदात् सङ्घातभेदादित्येभ्यस्त्रिभ्यः साताभव कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः।। - टी०-सङ्घातादित्यादि भाष्यम् । एतदुक्तं भवति-संहतत्वाद् भिन्नत्वात् सङ्घातभेदाच स्कन्धानामुद्भवः । इतिशब्दः कारणेयत्ताप्रकाशनार्थः, विप्रदेशादय इति सकलस्कन्धराशेरायस्कन्धोपन्यासभावनयाऽशेषस्कन्धविषयः सङ्घातः सुज्ञान इत्यादिग्रहणमुदचीचरत् ॥ १ ततो यस्मिन् इति क-पाठः। २ गोलोमानुलोमा' इति क-पाठः। ३. यथा.वा' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518