Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 407
________________ ३७६ तत्वार्थाधिगमसूत्रम् [ अध्याय: ५ , त्याख्यायते, न चालोकग्रहणे सति रूपबुद्धिर्भवति चित्ररूपवत् सालोकस्य रूपस्य ग्रहणात्, आलोके तु सति स्याद् रूपबुद्धिः ॥ पुनराशङ्कते - प्रत्यक्षानुमानाभ्यामननुभूते समुदाये, कथं स्मृतिरुत्पद्यत इति, न, अनेकान्तात्, विकल्पितेऽपि हार्थे स्मृतिर्दृष्टा बन्धुमत्याख्यायिकादौ । अस्ति च घटादिसङ्केतप्रभवः समुदाये विकल्पो वनादिविकल्पवत्, अन्यथा वनसेनास्मरणमपि न स्यात्, एवं च न रूपादिव्यतिरिक्तं द्रव्यं समस्तीति व्यवस्थितम् ॥ पुनरप्याह - अस्त्येवान्यद् द्रव्यम्, बुद्धिभेदात्, अन्यैव हि रूपाधीरन्या च घटबुद्धिः । अयं च बुद्धिभेदोऽन्यत्वे सति भवति, नान्यथा, तस्माद् रूपादिद्रव्ययोरन्यत्वं बुद्धिभेदाद् गवादिवदिति, अयुक्तमेतदपि, यदि तावदुभयोरन्यत्वं साध्यते, द्रव्याभावादेक देशाश्रयासिद्धः, नहि सतोऽसतश्चैकमेव विशेषणं न्याय्यम् । अथ रूपादिभ्यो द्रव्यस्यान्यत्वं साध्यते, तदसमञ्जसम् नहि द्रव्यं नाम किञ्चदस्ति स्वरूपेण यस्यान्यत्वं साध्येत, सिद्धे धर्मिणि धर्मविप्रतिपत्तौ साधनसद्भावात्, अनैकान्तिकच पानकादिभिर्बुद्धिभेदादिति, विनाव्यर्थान्तरभूतद्रव्यकल्पनया मनीषाभेदस्य सद्भावात् रूपाद्यवयवानां सन्निवेशविशेषाद् बुद्धिभेदः, यथा गुडोदकाभ्यां पानकं नार्थान्तरमथ च बुद्धिभेदः, एवं विपङ्क्त्यादिष्वपि द्रष्टव्यम् । तस्मान्नोत्पादव्ययव्यतिरिक्तः कश्चिदस्ति धौव्यांशो यमाश्रित्य प्रज्ञाप्येत द्रव्यमेकमभेदप्रत्ययहेतुरिति । स्वात्मव्यतिरिक्तावयव्यारम्भकास्तन्तव इति चेत्, अयुक्ततरमिदं तुलानतिविशेषाभावात्, यस्य ह्यवयवगुणा गुणान्तराण्यारभन्तेऽवयविनि “ द्रव्याणि द्रव्यान्तरमारभन्ते गुणा गुणान्तरम्" इति वचनात् तस्य दशपलपरिमाणभाजस्तन्तवः पटे गौरवान्तरमारभेरन्, अतस्तुलानतिविशेषाग्रहणान्नान्योऽवयव्यवयवेभ्य इति धर्माविशेषनिराकरणात् पक्षापवादो वाक्यार्थः, पटश्च तन्तुषु समवयन् प्रतितन्तु वर्तेत कार्त्स्न्येन देशेन वा ? न तावदेकत्र तन्तौ कृत्स्नः समवेतः, सन्निकृष्टेऽपि तन्तावग्रहणात्, स्तम्भादिसन्निकर्षे मेर्वाद्यग्रहणवत्, यश्च यस्मिन् समवेतः स तत्सन्निकर्षे गृह्यते, यथा रूपादिः, अवयवित्रहुत्वप्रसङ्गश्थ, अथ तन्तौ पटस्य प्रदेशो वर्तते, न तर्हि कचिदेकः पटो वर्तत इति प्राप्तम्, न च तन्तुव्यतिरेकेणान्यः पटस्य देशोऽस्ति येन देशेनासौ तन्तौ वर्तेत, तन्तुरेव च तस्य देश इष्यते वैशेषकैः, न च तस्यैव तस्मिन् वृत्तिर्युज्यते, सावयवश्वावयवी स्यादिति । एवमवस्थितैकद्रव्याभावात् सर्वमुत्पादविनाशलक्षितमर्थक्रियासमर्थं वस्तु, उत्पाद - विनाशशून्याश्च शशविपणादयो न वस्तुव्यपदेशभाज इति प्रतीतम् । न च परमार्थतः कारणप्रकृतिरस्ति द्रव्यसत्ता यत्रावगम्यते भव्यत्वात्, कारणं कार्यमिति कल्पनामात्रमेतत्, प्रतीत्यप्रत्ययमात्रवृत्तित्वाद् दीर्घत्व हस्वतावत् तन्तुष्टयोर्मृद्घटयोर्वा न किञ्चित् स्वसिद्धं रूपमस्ति, तन्तुषु मृदि वा यः कारणप्रत्ययः स पटकुम्भाद्यशेषार्थान्तरापेक्षया न स्वसिद्धः, तस्मात् तन्तुपटयोर्यस्तन्तुपटप्रत्ययः स इतरेतराश्रयत्वादसदर्थविषयः, तथा मृद्घटयोरवत्कारणकार्ययोगभाव एव स्वरूपस्यासिद्धत्वाद् व्योमोत्पलादिवदिति । अत्रोच्यते - प्रागुत्पतद्भिरेवास्माभिरभ्यधायि स्थित्युत्पत्तिविनाशस्वभावं सकलमेव सद्, एतौ च द्रव्यपर्यायौ द्रव्यस्यान्यत्वम् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518