Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 471
________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ५ रलोपादुत्पादादिलक्षणायोगात् परिणामाभावः, अपरिणामित्वाच्चानिर्घार्यमात्रस्वभावाः स्युर्धर्मादयः, स्वत उत्पादव्ययपरिणामशून्यत्वात् तस्मात् सर्वत्र केचिदनाद्याः केचिदादिमन्तः परिणामा इति न्यायः, सूत्रकारेण तु भजनाप्रदर्शनार्थमेवं सूत्रन्यासः कृत इति ॥ ४३ यदुक्तमनन्तरमनाद्यादिमत्परिणामा रूपिष्वरूपिषु च धर्मादिषु सर्वत्र भवन्तीति तत्प्रदर्शनार्थममूर्तेकद्रव्यमुद्दिश्यादिमत्परिणाम निर्दिदिक्षया सूत्रं पपाठ - सूत्रम् - योगोपयोगी जीवेषु ॥ ५-४४ ॥ ४४० 0 डी० - अनन्तरमुत्रादादिमानित्येतदनुवर्तते, तच्च योगोपयोगयोविंशेषणतया प्रयुज्यते, द्विवचनान्तमादिमन्ताविति, योजनं योगः - पुद्गलसम्बन्धादात्मनो वीर्यविशेषः, युज्यते वा स इति योगः, केन ? आत्मना, शक्तिविशेषः प्राप्यत इतियावत्, कायवाङ्मनोरूपेणोस्पादः, उपयोजनमुपयोगः - चैतन्यस्वभावस्यात्मनो ज्ञानदर्शनाभ्यां स्वविषयोपलभ्यादिव्यापारः प्रणिधानादिलक्षणः, उपयुज्यतेऽनेन वेति समाधिविशेषस्तद्वारकोऽर्थपरिच्छेदोऽप्युपयोगस्तेनाकारेणात्मनो व्याप्तिः । कृतद्वन्द्वनिर्देशाद् योगोपयोगी जीवेषु - आत्मस्वेकद्वित्रिचतुःपञ्चेन्द्रियेषूपपद्यमानोत्पत्तिकालावधित्वादादिमंन्तौ सिद्धेषु तु सकलयोगोच्छेदादुपयोग एव क्रमवृत्तिरादिमानेक इति । एनमेवार्थ भाष्येण स्फुटयति भा० – जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्तौ भवतः ॥ टी. - जीवेष्वरूपिष्वपि सत्सु इत्यादि भाष्यम् । द्रव्यभावप्राणैः अजीविषुवन्ति जीविष्यन्ति चेति जीवाः । जीवेष्विति निमित्तार्था सप्तमी । जीवनिमित्तौ योगपरिणामावादिमन्तौ भवतः, तथापरिणामित्वादात्मनः, अथवा परिणाम्यपि कथञ्चिद् भेदवि - वक्षायां स्वपरिणामानामाधारतां प्रतिपद्यत एवेति तेष्वात्मसु मूर्तिवियुतेष्वपि भवत्सु । अपिशब्दोऽपेक्षायाम् । यथाऽयमपि विद्वान्, एवमण्वादिष्वादिमान् परिणामो जीवेष्वपीति समानम्, बहुव्रीहिणोक्तेऽपि मत्वर्थीयः कचिदभ्यनुज्ञातः पाणिनीयेऽपि " इङ्घार्योः शत्रकृच्छ्रिणि” (अ० ३, पा० २, सू० १३०, ) इति अरूपशब्दो वातीत (जाति) वचनस्ततश्च सिध्यति च मत्वर्थीयः । 'कृष्णसर्पे त्ववल्मीके' इति यथा, तत्रान्योन्यानुग तिलक्षण सम्बन्धादात्मनः कथं वामनोयोग्या पुद्गलानां च कायाद्यवष्टम्भोद्भूता शक्तिर्योगः । भा०- स च पञ्चदशभेदः । टी० – सामान्येन गमनादिकथनचिन्तनक्रियालक्षणः औदारिकवैक्रियाहारकमिश्रयोंगास्त्रयः, तैजसकार्मणे त्वेकः, वाग्योगः सत्यमृषाऽसत्या (मृषा) उभयभेदाच्चतुर्धा, एवं मनोयोगोऽपि चतुर्धा, उपयोगः साकारानाकारलक्षणो जीवस्वभावः । भा० - स च द्वादशविधः । १' मन्तौ' इति क-पाठः । २ ' तेऽप्यात्मसु' इति जैनानन्द पुस्तकालय प्रतिपाठः । निना यथा- इन्द्रा ० ' इति पाठान्तरम् । Jain Education International For Personal & Private Use Only ३ ' ज्ञानु पाणि www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518