Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 472
________________ सूत्र ४४ ] स्वोपज्ञमाष्यटीकालङ्कृतम् ४४१ टी-मतिश्रुतावधिमनःपर्याय केवलमतिश्रुतावश्यज्ञानत्रयभेदः पूर्वः ( प्राच्यः ), पाश्चात्यश्चक्षुरचक्षुरवधिकेवलभेदः। एतौ योगोपयोगी परिणामावित्यनेनात्मनः सद्भावा पत्तिं दर्शयति । आत्मा कायादिपुद्गलशतसम्बन्धात् तां तां गमनादिकथनचिन्तनक्रियां प्रतिपद्यते तद्रूपीभवति, क्षीरोदकवत् मृद्धटवच्च तादात्म्यं प्रतिपद्यत इतियावत् । स चोपजायमानकालावधिकत्वादादिमान्, सन्तत्या त्वनादिः, उपयोगोऽपीन्द्रियनिमित्तस्तन्निरपेक्षश्चात्मनो झस्वभावत्वाच्चैतन्यरूपत्वात् परिणामः सामान्य विशेषरूपः, सन्तत्याऽनादिः, प्रत्येकविवक्षायामादिमान्, अनयापि चोपयोगलक्षणमात्मनः सार्वकालिकत्वात् , योगोपयोगग्रहणाच्चान्येषामात्मन्यनादित्वं प्रायः परिणामानाम् । अथ मत्याधुपयोगद्वादशकस्य किं स्वरूपमित्यारेकिते इदमाह भा०-तत्रोपयोगः पूर्वोक्तः ॥ टी०-तत्र-तयोोंगोपयोगयोः उपयोगः पूर्वमेव द्वितीयेऽध्याये व्याख्यातः-स्वरूपेणोक्तः । " उपयोगो जीवलक्षणम्", "स द्विविधोऽष्टचतुर्भेदः" (अ० २, सू० ८,९) इत्यत्र । अथ योगः किंस्वरूप इत्याशङ्कयाह मा०-योगस्तु परस्ताद् वक्ष्यते ॥ टी-परस्तादिति उपरिष्टात् षष्ठाध्यायादिसूत्रे " कायवाचनाकर्म योग" इत्यत्रा मिधास्यते यतः तस्मादत्र न व्याख्यायते । तुशब्दो हेत्वर्थः। तदेव च स्थानं योगस्वरूपव्यावणेनस्य, उभयत्र व्याख्या गौरवमापादयति, तस्मात् तत्रैव व्याख्यास्याम इति, एवं सर्वद्रव्याणि परिणामवन्ति स्वरूपेण व्याख्यातानीति ॥ ४४ ॥ इति श्रीतत्त्वार्थाधिगमे अर्हत्प्रवचने भाष्यानुसारिण्या तत्त्वार्थटीकायां पञ्चमोऽध्यायः ॥५॥ MARRAMMAMMARHI ॥ प्रथमो विभागः समाप्तः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518