________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ५
रलोपादुत्पादादिलक्षणायोगात् परिणामाभावः, अपरिणामित्वाच्चानिर्घार्यमात्रस्वभावाः स्युर्धर्मादयः, स्वत उत्पादव्ययपरिणामशून्यत्वात् तस्मात् सर्वत्र केचिदनाद्याः केचिदादिमन्तः परिणामा इति न्यायः, सूत्रकारेण तु भजनाप्रदर्शनार्थमेवं सूत्रन्यासः कृत इति ॥ ४३ यदुक्तमनन्तरमनाद्यादिमत्परिणामा रूपिष्वरूपिषु च धर्मादिषु सर्वत्र भवन्तीति तत्प्रदर्शनार्थममूर्तेकद्रव्यमुद्दिश्यादिमत्परिणाम निर्दिदिक्षया सूत्रं पपाठ -
सूत्रम् - योगोपयोगी जीवेषु ॥ ५-४४ ॥
४४०
0
डी० - अनन्तरमुत्रादादिमानित्येतदनुवर्तते, तच्च योगोपयोगयोविंशेषणतया प्रयुज्यते, द्विवचनान्तमादिमन्ताविति, योजनं योगः - पुद्गलसम्बन्धादात्मनो वीर्यविशेषः, युज्यते वा स इति योगः, केन ? आत्मना, शक्तिविशेषः प्राप्यत इतियावत्, कायवाङ्मनोरूपेणोस्पादः, उपयोजनमुपयोगः - चैतन्यस्वभावस्यात्मनो ज्ञानदर्शनाभ्यां स्वविषयोपलभ्यादिव्यापारः प्रणिधानादिलक्षणः, उपयुज्यतेऽनेन वेति समाधिविशेषस्तद्वारकोऽर्थपरिच्छेदोऽप्युपयोगस्तेनाकारेणात्मनो व्याप्तिः । कृतद्वन्द्वनिर्देशाद् योगोपयोगी जीवेषु - आत्मस्वेकद्वित्रिचतुःपञ्चेन्द्रियेषूपपद्यमानोत्पत्तिकालावधित्वादादिमंन्तौ सिद्धेषु तु सकलयोगोच्छेदादुपयोग एव क्रमवृत्तिरादिमानेक इति । एनमेवार्थ भाष्येण स्फुटयति
भा० – जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्तौ भवतः ॥ टी. - जीवेष्वरूपिष्वपि सत्सु इत्यादि भाष्यम् । द्रव्यभावप्राणैः अजीविषुवन्ति जीविष्यन्ति चेति जीवाः । जीवेष्विति निमित्तार्था सप्तमी । जीवनिमित्तौ योगपरिणामावादिमन्तौ भवतः, तथापरिणामित्वादात्मनः, अथवा परिणाम्यपि कथञ्चिद् भेदवि - वक्षायां स्वपरिणामानामाधारतां प्रतिपद्यत एवेति तेष्वात्मसु मूर्तिवियुतेष्वपि भवत्सु । अपिशब्दोऽपेक्षायाम् । यथाऽयमपि विद्वान्, एवमण्वादिष्वादिमान् परिणामो जीवेष्वपीति समानम्, बहुव्रीहिणोक्तेऽपि मत्वर्थीयः कचिदभ्यनुज्ञातः पाणिनीयेऽपि " इङ्घार्योः शत्रकृच्छ्रिणि” (अ० ३, पा० २, सू० १३०, ) इति अरूपशब्दो वातीत (जाति) वचनस्ततश्च सिध्यति च मत्वर्थीयः । 'कृष्णसर्पे त्ववल्मीके' इति यथा, तत्रान्योन्यानुग तिलक्षण सम्बन्धादात्मनः कथं वामनोयोग्या पुद्गलानां च कायाद्यवष्टम्भोद्भूता शक्तिर्योगः ।
भा०- स च पञ्चदशभेदः ।
टी० – सामान्येन गमनादिकथनचिन्तनक्रियालक्षणः औदारिकवैक्रियाहारकमिश्रयोंगास्त्रयः, तैजसकार्मणे त्वेकः, वाग्योगः सत्यमृषाऽसत्या (मृषा) उभयभेदाच्चतुर्धा, एवं मनोयोगोऽपि चतुर्धा, उपयोगः साकारानाकारलक्षणो जीवस्वभावः ।
भा० - स च द्वादशविधः ।
१' मन्तौ' इति क-पाठः । २ ' तेऽप्यात्मसु' इति जैनानन्द पुस्तकालय प्रतिपाठः । निना यथा- इन्द्रा ० ' इति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
३ ' ज्ञानु पाणि
www.jainelibrary.org