________________
स्वोपज्ञभाष्य–टीकालङ्कृतम्
सूत्रम् - रूपष्वादिमान् ॥ ५-४३ ॥
;
"
टी० – रूपाव्यभिचारिणः स्पर्शादय इति नोपात्ताः, स्पर्शथ रूपाद्यव्यभिचारी कचित् किञ्चित् कदाचिदुद्भूतशक्तिर्भवति, कचिन्न्यग्भूतशक्तिः, लवणशकलादिवत् अतः सर्वे वाय्वादयश्चतुर्गुणाः, स्पर्शवत्त्वात् तत्रानेकः परिणामः पुद्गलेषु व्यणुकादिस्कन्धलक्षणः, शब्दादिः शुक्लपीतादिश्च तत्र यदा द्वावणू विस्रसातो व्यणुकस्कन्धमारभेते, तदा व्यणुकस्कन्धपरिणाम आदिमान् एवं शेषा अपि प्रयोगविस्रसाजनिता यथावद् द्रष्टव्या इति, एतदेव भाष्येण स्पष्टयति
सूत्र ४३ ]
भा०- - रूपिषु तु द्रव्येषु आदिमान् परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥ ४३ ॥
टी० - रूपिष्वित्यादि । रूपमेषामेषु वाऽस्तीति रूपिण:, ' ( प्राणिस्थादातो ) लजन्यतरस्यां' (पा० अ० ५,पा० २, सू० ९६ ) ग्रहणं तत्र समुच्चयार्थ व्याख्यातम्, रूपिण्यप्सरा इति यथा । तेषु रूपिषु रूपस्पर्शरसगन्धवत्सु द्रव्येषु द्रुतिलक्षणेषूत्पादव्ययवत्स्वादिमान् परिणामोsनेकप्रकारः, स्पर्शरसगन्धवर्णादिः । स्पर्शोऽष्टधा शीतादिः शीततरशीततमादिश्व, रसः पञ्चविधस्तिक्तादिस्तिक्ततरादिव, गन्धो द्विधा सुरभिरसुरभिः सुरभितरादिश्च वर्णः शुक्लादिभेदात् पञ्चविधः शुक्लादिः शुक्लतरादिश्व, आदिशब्दाद् व्यणुकादिसङ्घातभेदलक्षणः शब्दादिवेत्येवमनेकाकारः परिणामः पुद्गलद्रव्यविषयः, जन्मादिविनाशान्त विशेष संस्पृष्टः स्वरूपसामान्यविशेषधर्माधिकारी तद्भावलक्षणः परिणामः आदिमान् भवति, तुशब्दो विशेषणार्थः, द्रव्यत्वमूर्तत्वसत्त्वादयोऽनाद्या अपि पुद्गलद्रव्ये परिणामाः सन्तीत्यमुमर्थं विशिनष्टि, समुच्चयार्थो वा तुशब्दः आदिमांथ, चशब्दादनादिश्च । एवं तर्ह्यरूपिष्वपि द्रव्येष्वादिमानपि परिणामोsस्तु, अस्त्येव योगोपयोगलक्षणो जीवेषु वक्ष्यमाणः, धर्मादिष्वपि भवतु तद्वदेवेति, को वा निवारयति सन्तं पदार्थम् ? यथा स्वयं गन्तुर्जिगमिपापरिणतस्याधुना धर्मद्रव्यमुपग्राहकं भवति, उपग्राहकत्वं च धर्मपर्यायः स च प्राङ् नासीत्, तस्य गन्तुर्गतिपरिणतेरभावात्, अधुना चोपजायमानः सादिरेव, देवदत्तगन्तृगत्युपरमेऽन्तवान् एवं जन्मविनाशवस्वात् सादित्वम्, न चोपग्राहकत्वमुपग्राह्यमन्तरेणास्ति, एवमधर्मद्रव्यं स्थितिपरिणामभाजः स्थित्यु - पग्रहरूपेण परिणमते, व्योमाप्यवगा दुरवगाहदानपर्यायेण, कालश्च वृत्तवर्तमानादिपरिणत्या भवत्यादिमान्, एवमेष परिणामो द्रव्यार्थिकव्यापाराद् धर्मादिस्वभावी न धर्मादिव्यतिरिक्तः, कचिद् वैस्रसिकः क्वचित् प्रायोगिकः कचिदुभयथोत्पादव्ययधौव्यलक्षणत्वात् सतः, न चोपवारस्तत्त्वचिन्तायामङ्गभावं प्रतिप्रद्यते, इत्येवमनुमोदामहे तत्रादिमन्तं परिणामम् । येतु मन्यन्ते रूपिष्वेवादिमान् परिणामो भवति, नामूर्तेषु धर्मादिषु तेषामरूपिद्रव्यपर्यायाश्रयव्यवहा
१ 'स्वानानेकः' इति क ा पाठः ।
२ 'रमेण परिणतवानेवं' इति क ख पाठः ।
Jain Education International
४३९
For Personal & Private Use Only
www.jainelibrary.org