SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४३८ तत्त्वार्थाधिगमसूत्रम् [ अध्याय: ५ , , दीपक्षीरादिषु न, स्वजात्यनुच्छेदात् कथित् पर्यायोऽपैत्यपरः प्रादुरस्ति पुद्गल चैतन्यजात्यनुच्छेदेन तस्य, तस्य तथाभावः परिणामः सोऽन्यत्वदुर्बुद्धेः कारणम्, उत्कणविणकु ण्डलप्रसारिताने कावस्थ सर्पवदेकमन्वयि तत् परिणमते, न तु पूर्वोच्छेदेन सर्वथाऽन्यस्योत्पाद इति पूर्वोक्तेन विधिना प्रपञ्च्यम्, वृत्यक्षराण्यपि क्षणभङ्गनिरासद्वारेण समर्थनीयानीति । अथवा कैश्चित् परिणामलक्षणमुक्तम् - " अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिर्धर्मान्तरप्रादुर्भा वश्व परिणाम " इति, तदपाकरणायावाचि तद्भावः परिणामः, तत्रावस्थितं यदि कूटस्थं विवक्षितम्, ततस्तस्य ये धर्मा उत्पादविनाशलक्षणास्तदाकारेण तन्नोत्पद्यतेऽस्थितत्वादेव, तादृगप्यस्तीति श्रद्धया प्रतिपत्तव्यम्, धर्मा एवोत्पद्यन्ते विनश्यन्ति वा व्यतिरेकिणः, अथानन्ये द्रव्याद् धर्मास्ततो धर्मोत्पादे धर्मविनाशे चानन्यत्वादेव द्रव्येणापि तथैव भवितव्यमिति नास्त्यवस्थितत्वम्, अतस्तद्भावलक्षण एव परिणामोऽभ्युपेयः, तदेव हि द्रव्यं तथा भवति, गुणो वा स्वभावः स्वतत्त्वं परिणामः परिणामिनो द्रव्यस्येति निरवद्यं परिणामलक्षणमिति ॥ ४१ ॥ सद्विविध इत्यादिना सम्बन्धं कथयति, स एष परिणामोऽनन्तरसूत्रोक्तो याथात्म्योपलब्धिनिमित्तत्वाद् द्वे विधे यस्यासौ द्विविधः । के पुनस्ते इत्याह सूत्रम् - अनादिरादिमांश्च ॥ ५-४२ ॥ " डी० -- अविद्यमान आदिरस्यासावनादिः - अविद्यमानप्रथमारम्भः परिणामः यस्मात् पूर्व नास्ति परमस्त्यादिः स तद्वान् यः स आदिमान् प्रथमारम्भप्रवृत्तिः चशब्द परिणामे यत्तोपसंहारार्थः समुच्चयार्थो वा । क पुनरयं परिणामोऽनादिः क चासावादिमानिति विभागेन निरूपयति भा० - तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ॥ ४२ ॥ डी० - तनानादिरित्यादि । तत्र - तयोरनाद्यादिमतोः परिणामयोः, अनादिररूपिषु परिणामो धर्माधर्माकाशजीवेषु, क्रियापदाध्याहाराद् भवति । इतिशब्दोऽभ्युच्चयार्थः । का लद्रव्ये चानादिपरिणामः, तत्र धर्मद्रव्यपरिणामोऽनादिरसङ्ख्ये य प्रदेशवच्चं लोकाकाशव्यापि - त्वममृर्तत्वं गन्तुगत्यपेक्षाकारणत्वेनागुरुलघुत्वमित्यादिः, अधर्मद्रव्यस्य तु स्थातृस्थित्यपेक्षाकारणत्वं विशेषः, शेषं समानम्, आत्मनोऽप्येते वाऽपेक्षाकारणरहिताः, अन्ये च जीवत्वभव्यत्वाभव्यत्वादयः परिणामाः, स्वस्यानन्तप्रदेशत्वममूर्तत्वमगुरुलघुपर्यायत्वमवगाह कावगा - हदातृत्वमित्यादिः, कालस्य वर्तमानादिः परिणाम इत्येवममूर्तद्रव्येषु रूपशब्दो मूर्तिवचनो मूर्तिश्च रूपरसगन्धस्पर्शा इति ॥ ४२ ॥ अथ रूपिषु मूर्तिषु परमाण्वादिषु किमनादिः परिणाम आहोस्विदादिमानित्यत आह १' न्यत्वबुद्धेः ' इति गं-पाठः । Jain Education International For Personal & Private Use Only , www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy