________________
सूत्र ११] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४३७ भा०-धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः॥४१॥ स द्विविधः । ___टी-धर्मादीनां द्रव्याणामित्यादि भाष्यम् । धर्मो गत्युपग्रहकुल्लोकाकाशव्यापी, स आदिर्येषां तानि धर्मादीनि द्रव्याणि, आदिशब्दादधर्माकाशपुद्गलजीवकालाख्यानि, तेषां स्वो निजो भावो भूतिरात्मलाभोऽवस्थान्तरप्राप्तिः परिणामः । परिशब्दो व्याप्तौ, दोषेण परीतो यथादोषेण व्याप्तः, नमिः प्रदत्वमभिधत्ते प्रदत्वमृजुत्वमवस्थान्तरप्राप्तिलक्षणं धर्मादिस्वतत्त्वं, तेन योत्पादो विनाशश्च व्याप्तः, समस्तस्थित्यंशसामान्येनाव्याप्तो नोत्पादो नो विनाशोऽस्तीति परिणामशब्दार्थः, समन्ताद् भावे वा परिः, परिखनतिवत्, सवेत्राथाभिधानप्रत्ययेषु नमनमन्वयांशानुवेधः, वीप्सार्थो वा परिशब्दः, यथा वृक्षं परिसिञ्चति, वृक्षं वृक्षं सिञ्चतीत्यर्थः । एवं द्रव्यं द्रव्यं परिनमनं परिणामः, स्वमात्मनो व्यतिरेक्यपि दृष्टं गोमहिष्यजाविकादि तब्यवच्छेदार्थमाह-स्वतत्त्वमिति । तस्य भावस्तत्त्वं धर्मादेरवस्थान्तरापत्तिः, स्वं च तत् तत्त्वं चेति स्वतत्त्वं-धर्मस्यैव निजमवस्थान्तरम्, न त्वधर्मादेवस्थान्तरं, धर्मद्रज्यस्य परिणामः, एवमधर्मादिद्रव्याणामपि स्वस्वावस्थापत्तिः परिणामो द्रष्टव्यः, धर्मो हि गन्तुगेत्युपग्रहाकारेण परिणमते स्वरूपापरित्यागेन, स्थित्युपग्रहाकारेण स्थातुरधर्मः, व्योमाऽप्यवगाहुरवगाहदायित्वेनोपजायते, पुद्गलाः शरीरशब्दादिरूपेण, आत्मा ज्ञानदर्शनोपयोगवृत्त्या नारकादिभावेन च, कालोऽपि वर्तनादिप्रपञ्चेन परिणमते, तथा यथोक्तानां गुणानामिति, येन प्रकारेणोक्ताः शुक्लादिघटकपालादय एकजातीयत्वेन, न भिन्नजातीयतया, गुणाः पृथक् पर्यायाश्च पृथगिति, अत एवेह पर्यायग्रहणं न कृतम्, गुणपर्याययोरेकत्वात् , तेऽपि हि शुक्लादयः कृष्णादित्वेन परिणमन्ते वर्णादिसामान्यममुश्चन्तः, कुम्भपयोयोऽपि कपालावस्थाप्रापी मृत्स्वभावमपरित्यजन् , कपालादयोऽपि शकलशर्करापांशुत्रुटिपरमाणुरूपेणेति, परमाणवोऽपि रूपाद्यात्मना व्यणुकादिस्कन्धात्मना वेत्येवं द्रव्याणि सर्वदा सूक्ष्मस्थूलभेदोत्पादव्ययरूपेण परिणमन्ते, गुणानां च परिणामाभ्युपगमे गुणवत्त्वमर्थादेवाभ्युपेतं भवतीत्यनेकान्तवादसद्भावप्ररूपणार्थमिदमेवावोचद् भाष्यकारः, अथवा क्षणिकान् पदार्थान् ये प्रतिजानते त एवमाहुः-उत्पत्तिसमनन्तरमेव ध्वंसन्ते पदार्थाः, न हेतुमपेक्षन्ते ध्वंसमानाः, स्वात्मलाभक्षणानन्तरं क्षयः विनाशः क्षण उच्यते, निरुक्तविधानात् , तद्योगात् क्षणिकमिति । आह च
" क्षणोवाचेह नैरुक्तै-रुत्पन्नानन्तरं क्षयः ।
निर्हेतुः सोऽनपेक्षत्वात् , तद्योगात् क्षणिकं मतम् ॥" यथाः पयःप्रतीपादयः प्रतिक्षणमन्ये चान्ये चोत्पद्यन्ते निरवशेषपूर्वनाशसमकालम् , एवमन्येऽपि महीध्रादय इत्यस्य प्रतिक्षेपायेदमाह-तद्भावः परिणामः । परिणामादन्यथात्वं
१ . समत्वात् ' इति क-पाठः । ९ ' द्रव्यं नमनं ' इति ग-पाठः । ३ ' स्वेन गुणाः ' इति क-पाठः । ४ ' क्षयः क्षण ' इति ग-पाठः । ५. वत्पत्त्यनन्तरं इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org