________________
४३६ तत्वार्थाधिगमसूत्रम्
[अध्यायः ५ ति-नैषां गुणाःसन्तीति निर्गुणाः । एषां ज्ञानादिशुक्लादीनां गुणानां नान्ये गुणाः केचन सन्तीति निर्गुणाः, द्रव्याद् व्यतिरेके सत्येतदुपपद्यते, गुणगुणिनोर्भेद इत्यर्थः । तत् तु ना
लोकान्तेन । इतिशब्दोत्राव्यतिरेकनयवाक्योपन्यासार्थः । नैपां गुणाः सन्तीति भेदनयप्रधान वचनम् । न च भेदपरमार्थ एव जैनः कृतान्तः, सकलस्य वस्तुनो भेदाभेदरूपत्वात् । यदा तु द्रव्यमेव तथा परिणतं ज्ञानाद्यात्मना शुक्लाद्यात्मना वा तदा द्रव्यस्य तादात्म्याद् गुणानां स्वरूपं भिन्नं नास्त्येवेति, एवं च शुद्धद्रव्यास्तिकादेशादनन्यत्वमेव नैर्गुण्यं, पर्यायविवक्षायां तु स्याद् गुणप्रधानत्वात् पर्यायनयस्येति, कदाचिदाशङ्केत परः सतां गुणानां निर्गुणत्वं चिन्त्यतेऽत्यन्तशुद्धद्रव्यास्तिकपक्षे गुणा एव न सन्ति कुतोऽनन्यत्वमिति १ । उच्यते-न सन्तीत्येतदयुक्तम् , सन्ति गुणाः, किन्तु द्रव्यादव्यतिरिच्यमानस्वरूपाः, तेद् यदि द्रव्यं शुक्लाकारेण परिणतं भवति, तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति ॥ ४० ॥
भा०-अत्राह-उक्तं (सू० ३६ ) भवता-बन्धे समाधिको पारिणामिकाविति । तत्र का परिणाम इति । अत्रोच्यते
टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे । भवतेदमुक्तं (मू० ३६)-बन्धे समाधिको पारिणामिकाविति, समः समगुणस्य परिणामं विधत्ते, हीनगुणस्याधिकगुणः परिणाममापादयतीति, तथा नामादिमूत्र(१-५)भाष्य इदमभिहितम्-भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते, प्राप्तिश्च परिणामः, स च सकलद्रव्यविषय एव पिपृच्छिषतः, तत्र सूत्रे भाष्ये वाकः परिणामशब्दवाच्योऽर्थो यमङ्गीकृत्येदमुक्तम्-समगुणोऽधिकगुणो वा परिणाममापादयतीति, एवं मन्यते किमर्थान्तरभूतं परिणाम जनयन्त्याहोस्वित् त एव स्वरूपमजहतो द्रव्यविशेपा वैशिष्टयं प्रतिपद्यमानास्तथा भवन्तीति सन्देहभाजा पृष्टे भाध्यकृदाह-अत्रोच्यत इति । किमुच्यते ? यत् पृष्टम् । किञ्च पृष्टम् ? परिणामसद्भावः पञ्चविधस्य षड्विधस्य वा द्रव्यस्य धर्मादेः ।
सूत्रम्-तद्भावः परिणामः ॥ ५-४१ ॥ री०–तस्य भावस्तद्भावः, तस्येति द्रव्यषट्कस्याभिसम्बन्धः, तदेव हि धर्मादिद्रव्यं तेन तेनाकारेण भवति, गतिस्थित्यवगाहशरीरादिज्ञानादिवृत्तसमयादिना, भूतिर्भवममात्मलाभो भावः परिणामः। तस्येति कर्तृलक्षणा षष्ठी, भवतेरकर्मकत्वात् । तान्येव हि द्रव्याणि तथा भवन्ति, न कूटस्थान्यवतिष्ठन्ते, न सवेथोत्पद्यन्ते, नापि सर्वथोच्छिद्यन्ते, तस्मात् सामान्यरूपः परिणामोऽनुवृत्तिरूपत्वात् , अनुवर्तते हि सर्वत्र गत्यादिषु धर्मादिद्रव्यं स्वरूपमजहन , तथाविधधर्मद्रव्यादीनां समानभावः सामान्यम् , कषष्ठया द्रव्यादय एव समाना भवन्तीति सामान्यमेव, तद्भावलक्षणः परिणामः, इत्येतदेव भाष्येण प्रकाशयति परिणामस्वरूपम् ।
१ तद्यदा' इति फ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org