Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 442
________________ ४११ सूत्र ३१] स्वोपज्ञमाष्य-टीकालङ्कृतम् अर्पितं विशेष्यते, कीदृशेर्पिते १ अनुपनीते, कथमनुपनीते ? सामर्थ्यात् क्रमेणाविशेषिते, क्रमेण त्वर्पणे प्राच्यविकल्पावेव स्याताम् , अतोऽवश्यंतया युगपदभिन्ने काले द्वाभ्यां गुणाभ्यामेकस्यैवार्थस्याभिन्नस्य प्रतियोगिभ्यामभेदरूपेणैकेन शब्देनावधारणामकाभ्यां वक्तुमिष्टत्वादवाच्यम् , तद्विधस्यार्थस्य शब्दस्य चाभावात् , अयं च विकल्पस्तत्वान्यत्वसत्त्वासम्भवात् कि लावक्तव्यमेवेत्येवंविधैकान्तव्यावर्तनार्थः स्यादवक्तव्य एवात्मा, अवश्रवक्तव्यत्वम् क्तव्यशब्देनान्यैश्च पईभिर्वचनैर्द्रव्यपर्यायविशेषैश्च वक्तव्य एव, अन्यथा सर्वप्रकारावक्तव्यतायामवक्तव्यादिशब्देरप्यवाच्यत्वादनुपाख्यः स्यात् , अतीत विकल्पद्वयं त्वेकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षनिराकरणद्वारेण स्यादस्ति स्यान्नास्तीति स्वपरपर्यायान्यतरैकधर्मसम्बन्धार्पणात् कालभेदेनोक्तम् , अधुना युगपद् विरुद्धधर्मद्वयसम्बन्धार्पितस्य च वस्तुरूपस्याभिधानात् कीदृशः शब्दप्रयोगो भवतीति ? उच्यते-न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां प्रतिपूरयेत् , यतोऽर्थान्तरवृत्तः पर्यायैरवर्तमानर्मेननुभवंस्तान् पर्यायान् द्रव्यं ब्रवीतीत्येका विवक्षा, अपरा तु विवक्षा निजैः पर्यायैः स्वात्मनि वृत्तैवर्तमानमनुभवन् स्वान् पर्यायान् द्रव्यमभिदधातीति , एवमेतयोर्विवक्षयोः परस्परविलक्षणत्वाद् विरुद्धत्वाच द्वाभ्यामपि युगपदादेशे पुरुषस्यैकस्यैकत्र द्रव्ये नास्ति सम्भवो वचनविशेषातीतत्वाचावक्तव्यं वाचकशब्दाभावात् । एतदुक्तं भवति–अस्तित्वनास्तित्वयोर्विरुद्धयोरेकत्राधिकरणे काले च सम्भव एव नास्तीत्यतस्तद्विधस्यार्थस्याभावात् तस्य वाचकः शब्दोऽपि नास्त्येवेति १॥ तथा कालाद्यभेदेन वर्तनं गुणानां युगपद्भावस्तच्च योगपद्यमेकान्तवादे नास्ति, यतः कालात्मरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दद्वारेण गुणानां वस्तुनि वृत्तिः स्यात् , तत्रैकान्तवादे विरुद्धानां गुणानामेकस्मिन् काले न कचिदेकत्रात्मनि वृत्तिदृष्टा, न जातुचित प्रविभक्ते सदसत्त्वे स्त एकत्रात्मन्यसंसर्गरूपे येनात्मा तथोच्येत, ताभ्यां विविक्तश्च परस्परगु णानामात्मस्वभावो नान्योन्यात्मनि वर्तते, ततश्च नास्ति युगपदभेदेनाकालादयो वृत्तिहेतवः भिधानम् २ ॥ न चैकत्रार्थे विरुद्धाः सदसत्त्वादयो वर्तन्ते, यतोऽह्य भिन्नैकात्माधारत्वेनाभेदे सति सदसत्त्वे युगपदुच्येयाताम् ३ ॥ न च सम्बन्धाद् गुणानामभेदः, सम्बन्धस्य भिन्नत्वात् , छत्रदेवदत्तसम्बन्धाद्धि दण्डदेवदत्तसम्बन्धोऽन्यः, सम्बधिनोः कारणयोर्भिन्नत्वात् , न तावेकेन सम्बन्धेनाभिन्नावेव, सदसतोरात्मना सह सम्बन्धस्य भिन्नत्वात् , न सम्बन्धकृतं योगपद्यमस्ति, तदभावाच नैकशब्दवाच्यत्वम् ४॥ न चोपकारकृतो गुणानामभेदः, यसान्नीलरक्ताद्युपकटगुणाधीन उपकारः, ते च स्वरूपेण भिन्नाः सन्तो नीलनीलतररक्तरक्ततरादिना द्रव्यं रञ्जयन्ति विविक्तोपकारभाजः। एवं सदसत्त्वयोर्भेदात् सत्त्वेनोपरोक्तं सत्, असत्त्वोपरक्तमसदिति दूरापेतमुपकारसारूप्यम्, यत १ 'सत्त्वान्यत्व' इति क-पाठः। २ 'युगपत्तया विवक्षितादन्यैः द्रव्यविशेषपर्यायविशेषवाचकैः शब्दः । ३ 'स्यादस्तीत्यादिरूपैरेतद्वक्तव्यव्यतिरिकः । ४ 'मनुभवन्' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518