Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 445
________________ ४१४ तत्त्वार्थाधिगमसूत्रम् [ अध्याय: ५ प्रकृत्यर्थ प्रयुक्तान्यतरैवकारं वा परप्रतिपन्नैकान्तधर्मविशिष्टं वस्तु कथञ्चित् नियमकारिधर्मप्रत्यनीकपर्यायधर्मसम्बन्धीति स्यात् सत् स्यादनित्यनित्यादिधर्मात्मकमित्थं धर्म्यपीति वा स्याद्वादिभिः प्रतिज्ञायते, सुलभहेतुदृष्टान्तत्वात् , अतो द्रव्यास्तिकनयार्पणात् सोऽयं धर्म्यभेदेनैव व्यपदेशः प्रत्यभिज्ञाप्रधानत्वात् , पोयार्थिकनिर्देशादस्येदमिति भेदभाक्त्वम् , एकवचनादिप्रदर्शनं चैकस्यैव सत्त्वस्यासत्त्वस्य वा भजनाप्रभावितमनेकत्वमिति प्रतिपादनार्थम् , तत्र सद्भावपर्यायनिमित्तेनादेशेनार्पितमात्मरूपद्रव्यमित्येव सद्रव्यत्वमेव हि सद्भावपर्यायः, तद्धि द्रवति पर्यायान् द्रूयते वा तैद्रव्यमनेनाकारेणार्पितं स्यादस्तीत्युच्यते, तस्य द्रव्यत्वादेः पर्यायस्यात्मपरिणामिकारणप्रभावितत्वात् ताप्याच्च, तच्चास्तित्वं शेषषविकल्पापेक्षमेव सङ्गतिमनुभवति, सद्भावपर्यायद्वयनिमित्तादेव ज्ञानदर्शनोपयोगद्वयकारणक आदेशो द्रव्यम् , वक्ष्यत्युपरि-द्रव्याश्रया निर्गुणा गुणाः (अ०५,सू०४०) इति । तथा गणतिथसद्भावपर्यायकारणो वाऽयमादेशश्चैतन्यज्ञानदर्शनोपयोगाश्रयो द्रव्यमिति, एवं द्वे द्रव्ये बहूनि वाऽप्युक्तेन प्रकारेणा पितानि सद्भावपर्यायापेक्षया सद्यपदेशभाञ्जि भवन्ति, अथवैकसद्भावासद्भवापेक्ष- स्मिन् सद्भावपर्यायविषयेऽर्पितमादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा या द्रव्यस्यैकत्वादि- सत् तथा द्वयोबहुषु विभाव्यम्, अतिशिष्टस्य वा द्रव्यपदार्थस्यैकत्वद्वित्वविचार बहुत्वपर्यायाः, तथा च तदर्ग्यमाणं स्यादस्त्येकत्वेनार्पितमेकसङ्ख्या विशेषरूपतयैवास्ति न द्वित्वबहुत्वाकारेण, अनेकधार्मिणो हि वस्तुनः कदाचित् किश्चिद् विवक्ष्यते, युगपद्भरिवक्तृविवक्षायामप्येकत्वादयो यौगपद्येनार्पणावशादुपलभ्यन्ते, सकलपर्यायशक्तिसङ्गतेः परिणामिनः, एकपुरुषाधारमातुलभ्रातृभागिनेयादिशक्तिवत् , एकेन वक्त्रा विवक्षिते प्रयोजनवशादेकत्वद्वित्वादि च सम्भवदप्युपेक्षितं प्रयोजनाभावात् , अतस्तस्य तेनैव विवक्षिताकारेण कार्यसिद्धेः स्यादस्त्यात्मेत्युच्यते, न सर्वपर्यायार्पणया तदा तदस्ति तस्य वक्तरिति प्रथमविकल्पभावना ॥ द्वितीयो विकल्पः भा०-असद्भावपर्याये वा, असद्भावपर्याययोर्वा, असद्भाव पर्यायेषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वाऽसत् । टी०-असद्भावपर्याये वेत्यादिना द्वितीयविकल्पं भावयति। आत्मनो ज्ञानदर्शनादिव्यतिरिक्ता गतिस्थित्यवगाहोपकारस्पर्शादयोऽसद्भावपर्याया वर्तमानजन्मनो वाऽतीतानागतास्तजन्मनि वाऽतिक्रान्तागामिनः सर्वेऽप्यसद्भावपर्यायाः तदर्पणया स्यान्नास्त्येवात्मेति, न सर्वथा नास्तित्वप्रतिपत्तिः, यदाऽऽत्मा गत्युपकारकपर्यायेणार्पितस्तदाऽऽत्मद्रव्यमसत्, तत्स्वभावकत्वेन तस्याद्रवणात, सद्भावपर्यायप्रभावितं वा द्रव्यं स्वपरिणामिप्रभाविता वा पर्यायास्तत्र चैकमपि नास्तीत्यतोऽसदित्युच्यते,परपर्यायार्पणया नास्ति तदित्यर्थः। शेषं पूर्ववद् विभाव्यम् ॥ १' तर्षभाव ' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518