Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 466
________________ सूत्र ४०] स्वोपज्ञभाष्य-टीकालङ्कृतम् स्वोपजभाष्य-दीका ४३५ प्रतिपादितं भवता-गुणपर्यायपरिणामि द्रव्यम् , तत्र के गुणा यैस्तद्रव्यं गुणवदिति दिश्यते ? गुणग्रहणाच पर्याया गृहीता एवेत्यतो न भेदेन प्रश्नः, प्राक् च प्रतिपादितमेव गुणाः पर्याया इति चैकमित्युक्ते आचार्य आह-अत्रोच्यत इति । गुणस्वरूपमभिधीयते, यादृशा द्रव्यगुणास्तादृशाः प्रतिपाद्यन्त इति सङ्गिरते गुरुः ॥ सूत्रम्-द्रव्याश्रया निर्गुणा गुणाः ॥५-४०॥ टी०—स्थित्यंशो द्रव्यं स आश्रयो येषां परिणामि कारणं परिणामविशेषाणां गुणानां ते द्रव्याश्रयाः, परिणामिपरिणामलक्षण आश्रयाश्रयिभावो नाधाराधेयलक्षणः, कुण्डबदरादिवत् । न च समवायलक्षणः संबन्धो युज्यते द्रव्यगुणानामनुपपत्तेः । अस्तु तावद् द्रव्यगुणानां समवायलक्षणः संबन्धः। समवायस्य गुणानां च यः सम्बन्धः स किं समवायोऽथ सम्बन्धान्तरम् १ । यदि समवायः, तस्य तेषां च किमभिधानः सम्बन्ध इति । समवायश्चेत् , अनवस्था, सम्बन्धान्तरमिति चेत्, आगमविरोधः स्पष्टतरमुच्यते, समवायाख्यः सम्बन्धः समवायिनोर्यदि वर्तते, ततः संयोगवृत्त्या समवायवृत्त्या वा वर्तेत ? संयोगवृत्त्या तावन्न वर्तते, कुतः १ अद्रव्यत्वाद, द्रव्यविपयो हि संयोग इष्यते, न पुनद्रव्यगुणविषयः। अथ समवायवृत्त्या वर्तते तत्र समवायस्ततो यद्यन्यसमवायवृत्त्या सोऽपि वर्तते ततोऽनवस्थोराहणीया ॥ एवमुक्ते वार्तिककारेणोक्तं समवायो न कचिद् वर्तत इति ब्रूमः, अनाश्रित एवासौ स्वतन्त्रः सम्बन्धो भवतीत्येतदप्ययुक्तम् । यदि द्रव्यगुणयोनाश्रितः कयाचिद् वृत्त्या न तर्हि द्रव्यं गुणैः सम्बद्धं तेन समवायाख्येन सम्बन्धेनानाश्रितत्वाद् द्रव्यगुणयोघंटपटादिवत्, घटपटयोर्हि परस्परेण नास्ति समवायलक्षणः सम्बन्धः, तसाद् द्रव्यं परिणमते, गुणपर्यायाः परिणामविशेषाः, ते च गुणा निर्गुणाः । नहि शुक्लघटकपालादीनां गुणपर्यायाणामन्ये गुणपर्यायाः सन्ति, द्रव्यस्य परिणामिनः शुक्लादिपरिणामो घटकपालसंस्थानादिश्च परिणामः, न पुनस्तस्यैव शुक्लादेरन्ये शुक्लादयः कुम्भादिसंस्थानस्य वाऽन्ये संस्थानादयस्तत्परिणामा विद्यन्ते, इत्यतो निर्गुणाः । एनमेवार्थ भाष्येण स्फुटयति-।। भा०-द्रव्यमेषामाश्रय इति द्रव्याश्रयाः, नैषा गुणाः सन्तीति निर्गुणाः४०॥ टी०-द्रव्यमेषामाश्रय इत्यादि भाष्यम् । द्रव्यं भव्यं योग्यं युगपदयुगपद्भाविन्याः गुणपर्यायपरिणतेः स्थितिः सामान्यमेषामुत्पादव्ययलक्षणानां ज्ञानादिशुक्लादिघटकशकलादीनामाश्रयः, परिणाम्यर्थो द्रव्यं, तद्धि ज्ञानशुक्लादिघटकादितया परिणमते, भूयस्तेनाकारेण विनिवतेते, द्रव्यतया व्यवतिष्ठते, तदेषामुपन इति द्रव्याश्रयाः। इतिशब्द एवशब्दार्थे । एवशब्दस्त्ववधारयति, परिणामिपरिणामलक्षण एवाश्रयाश्रयिभावो न प्रकारान्तरेण, परिणामिपरिणामयोश्च द्रव्यपर्यायनयद्वयापेक्षयैकत्वान्यत्वभजनाविधिरुद्वाह्य इति । तं भजनाविधिमुपन्यस्य १ . णामोऽतस्तस्यैव ' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518