Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 449
________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ५ अधुना सप्तमविकल्पश्चतुर्भिरेशैस्वयंशः । कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषं च कश्चिदङ्गीकृत्य नास्तित्वं समुचितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात्, यात)था द्रव्यसामान्येन पयोयसामान्येन च युगपदवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चास्मेति । भावना तु द्रव्यार्थात् सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तात्मत्वेन विशेषेण नास्ति त्वमतोऽस्ति च नास्ति च स एवात्मा, द्रव्यपर्यायसामान्यसदसत्त्वाभ्यां सप्तमो विकल्पः युगपदवाच्य इति । एवमर्थानुरोधाद् विवक्षावशाच सप्तधैव वचनप्रवृत्तिः, नान्यथाऽपि, प्रवृत्तिनिमित्ताभावात, एष च मार्गों द्रव्यार्थपर्यायार्थाश्रयः, तौ च सङ्ग्रहाद्यात्मको, सङ्ग्रहादयश्वार्थशब्दनयरूपेण प्रधाविताः, तत्र सङ्ग्रहव्यवहारर्जुसत्रैरर्थनयैयौँ द्रव्यार्थपर्यायार्थी तदाश्रयैषा सप्तभङ्गी । तत्र अनपेक्षितोपदेशकशब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानम्, अर्थनया वक्तृपरिच्छेदविषयाः, ते त्वर्थपृष्टेनैवार्थे गमयन्ति । शब्दनयास्तु साम्प्रतिकसमभिरूढैवंभूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मकाः शब्दरूपरूपितविज्ञानत्वाच्छब्दप्रमाणकाः, यच्छब्द आह यथा च तथैवार्थ इति शब्दपृष्टेनार्थपरिच्छेदं कुर्वन्ति, अत एवैतेष्वभिधानस्वरूपशुद्धिपरा चिन्ता, चक्षुर्विमलीकरणाञ्जनवत् । तत्रार्थनयाः सत्त्वासत्त्ववर्तमानसत्त्वमात्रैषिणः प्रत्येकात्मकाः संयुक्ताश्च सप्तविधवचननिर्वचनप्रत्यलाः । विविक्तसत्त्वमात्रपरिग्रहात् सत्त्वसङ्ग्रहः, अन्यासत्त्वमेव सत्वमिति व्यवहारः, वतेमानप्रधानत्वाद् वतेमानमेव सत्त्वमृजुसूत्रः । तत्र स्यादस्तीति सङ्ग्रहः १ स्वाभास्तीति व्यवहारः २ सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः ३ सङ्ग्रहव्यवहारविभागसं योगादेव स्यादस्ति च नास्ति च ४ स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः नयत्रयापेक्षया सहव्यवहारौ चाविभक्तौ ५ स्यानास्त्यवक्तव्यश्चेत्यत्र व्यवहारः सनसप्तमगी हव्यवहारौ चाविभक्तौ ६ स्यादस्ति नास्त्यवक्तव्यश्चेत्यत्र विभक्तौ सङ्गह व्यवहारावविभक्तौ वा७,इत्येवमर्थपर्यायैः सप्तधा वचनव्यवहारः। व्यञ्जनपर्यायाः शब्दनयास्ते त्वभेदभेदद्वारेण वचनमिच्छन्ति, शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति, न जातचिद् भिमलिङ्गं भिनवचनं वा शब्दं स्त्री दारास्तथाऽऽपो जलमिति, समभिरुढस्तु प्रत्यर्थ शब्दनिवेशादिन्द्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते, अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वाद् मिन्नार्थत्वमेपानुमन्यते, घटशकादिशब्दानामिवेति, एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापुच्छ तीच्छति, चेष्टाविष्ट एवार्थो घटशब्दवाच्यश्चित्रालेखनोपयोगपरिणशब्दनया तथ चित्रकारः, चेष्टारहितस्तिष्ठन् घटो न घटशब्दषाच्या, तच्छन्दा र्थरहितत्वात, कुटशब्दवाच्यार्थवत्, नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद् गोपालादिवत्, एवमभेदभेदार्थवाचिनोऽने १. अभ्यासत्वमिति' इति क-पाठः । १ 'क्षेत्रालेख्यतोपपोग' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518