Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
सूत्र ३७] स्वोपज्ञभाष्य टीकालङ्कृतम्
४२७ कदाचित् परिणामकः, स्वगतेन रूक्षगुणेन स्नेहगुणमात्मसात्करोति परिणामयतीति, गुणसा. म्ये तु सदृशानां बन्धप्रतिषेधः, इमौतु विसदृशावेको द्विगुणस्निग्धोऽन्यो द्विगुणरूक्षः, स्नेहरूक्षयोश्च भिन्नजातीयत्वान्नास्ति सादृश्यम्, तथाऽधिकगुणः-त्रिगुणस्निग्धो हीनगुणस्य-एकगुणस्निग्धस्य परिणमयिता, अनेन होकगुणस्निग्धस्त्रिगुणस्निग्धतामापद्यते, कस्तूरिकांशानुविद्धविलेपनवत्, एतावञ्च बन्धजातं समगुणयोर्विषमगुणयोर्वा परिणम्यत्वं च, इतरमात्मसात्कुर्वन् परिणमत इति परिणामकः, परिणम्यगुणसङ्ख्यामाक्षिप्य वा स्वगुणसङ्ख्यामजहत् परिणमत इति परिणामकः, अथवा परिणमनं परिणामस्तं करोति-परिणामयति परिणामकः, आत्मरूपेण परस्यापि परिणामं करोतीत्येवं प्रकृत्यन्तणिजन्तत्वयोर्न कश्चिद् विरोध इति ॥ ३६ ॥
भा०-अत्राह-उक्तं भवता (अ०५, सू० २)--द्रव्याणि जीवाश्चेति । तत् किमुद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति ? । अत्रोच्यते-लक्षणतोऽपि प्रसिद्धिः, तदुच्यते
टी०-अत्राह-उक्तं भवतेत्यादिना सूत्रसम्बन्धमाचष्टे । अत्र शास्त्रे भवताभिहितं पश्चमाध्याये वो-द्रव्याणिजीवाश्च(अ०५,सू०२)इति, धर्माधर्माकाशपुदला द्रव्याणि जीवाश्चेस्येवं पञ्च द्रव्याणि प्रथममुद्दिष्टानि-सामान्येनोक्तानीति, न तु द्रव्यलक्षणमपदिष्टम्, एवंलक्षणकं द्रव्यमिति, यस्माद् द्रव्यशब्देनोक्ता धर्मादयः तसात किमुद्देशत एव-सामान्याभिधानमात्रादेव द्रव्याणां-धर्मादीनां स्वरूपप्रसिद्धिः-स्वरूपपरिज्ञानमाहोस्विदस्तिकिञ्चिद् वैशेषिकम्असाधारणलक्षणमिति । एवं मन्यते-प्रतिव्यक्ति प्रतिनियमात् लक्षणस्य यथाऽवस्थितलक्ष्यपरिच्छेदित्वादुद्देशतस्तावनेष्यते प्रसिद्धिः, किं तर्हि ? लक्षणत इष्यते, ततश्च यतो लक्षणतः प्रसिद्धिर्धर्मादिद्रव्ये तदपदेष्टव्यम् , यथाऽऽत्मनोऽसाधारणं साकारानाकारोपयोगलक्षणम्, सामान्यविशेषसंज्ञाव्यवहार्याश्च सर्वे प्रावचनाः पदार्था इति ॥ ननु चोत्पादव्ययधौव्ययुक्तं सदिति सामान्यलक्षणमुक्त(सू०२९), सत्यमेतत्, अमुना तु प्रश्नप्रसरेण विशेषलक्षणमभिधापयति प्रश्नयिता-किं द्रव्यं के वा धर्मा इति, द्रव्यस्य धर्माणां च विशेषावगतिजिज्ञासार्थ प्रश्नः, आचार्योऽपि वैशेषिकं लक्षणं मनसि सन्निवेश्यात्रोच्यत इत्याह, किमुच्यते ?-लक्षणतोऽपि प्रसिद्धिः, अपिशब्दादुद्देशतोऽपि असाधारणं लक्षणं, तस्माल्लक्षणाद् यथा द्रव्यपदार्थे प्रसिद्धिःविशिष्टविज्ञानोत्पादो विज्ञातुर्भवति तथा तल्लक्षणमुच्यते॥
सूत्रम्-गुणपर्यायवद् द्रव्यम् ॥ ५-३७ ॥ भा०-गुणान् लक्षणतो वक्ष्यामः(मु०४०)। भावान्तरं संज्ञान्तरं च पर्यायः। तदुभयं यत्र विद्यते तद् द्रव्यम् । गुणपोया अस्य सन्त्यस्मिन् वा सन्तीति गुणपयायवत् ॥ ३७॥
१'च' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518