Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 463
________________ ४३२ तत्त्वार्थाधिगमसूत्रम् [ अध्याय: ५ तस्मान्मानुषलोक एव कालः, स च परिणामी, न पुनरेक एव विच्छिन्नमुक्तावलीमणिवदविद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते, निरन्वयसमयोत्पादविनाशप्रसक्तेः, एकनयात्रलम्बित्वं चैत्रं स्यात्, अतोऽनर्पितद्रव्य नयमतानुसारिभिः सन्ततिपक्षप्रतिज्ञानाद् विद्यमानतैव पूर्वोत्तरसमययोः, वर्तमानसमय एवोत्तर समयरूपेणोत्पद्यते तथापरिणामात्, नापूर्वमुत्पद्यते खपुष्पादि, नापि निरन्वयमेव किञ्चिद् विनश्यति कार्यत्वात् तत्सन्तानपतितत्वादुपान्त्यसन्ताननिरूपत्वात् न पुनः सर्वथैवोद्भवविनाशौ निराधारावेव, धौव्यं तयोराधारस्तस्मिन् सति तयोर्भावादिति । यच्च परत्वापरत्वादि काललिङ्गमभ्यधायि प्राक् तदपि नयान्तराभिप्रायादेव, अन्यथा तु स्थितिविशेषापेक्षे हि परत्वापरत्वे, षष्टिवर्षाद् वर्षशतिकः परापरत्वादेः परः, अपरः षष्टिवर्ष इति, स च स्थानविशेषः पष्टिर्वर्षाणां शतं वर्षाणास्थितिविशेषापेक्षिता मिति स्थितेरेव, सा च सत्त्वापेक्षा, अस्तित्वादेव भावानाम्, अस्तित्वं चानपेक्षमित्युक्तम्, तस्मात् कालापेक्षे परत्वापरत्वे न भवतः, यौगपद्यमपि कर्तृषु व्यवस्थितं तेषामेव कर्तॄणां कांश्चित् क्रियाविशेषानपेक्षते, न कालम्, न च ते क्रियाविशेषास्ताभ्यः क्रियाभ्यो ऽत्यन्तमेव नाना भवितुमर्हन्ति, यदा तु काकतालीयेनैकः कर्ता तथाविधक्रियामापद्यतेऽन्योऽपि कर्ता तथैव तत्क्रियापरिणतस्तदा युगपदिति व्यपदेशः, एवमयुगपदित्यपि भावनीयम् ॥ तथा चिरक्षिप्रयोरेष एव प्रपञ्चः, ते च गतिविशेषापेक्षे, गतिश्च परमाण्वादिद्रव्यप्रतिबद्धेति ॥ अथ कस्मादादावेकनयालम्बनेन सूत्रार्थमुपक्रम्य पुनर्नयद्वयेनोपसंहरति भवानित्याक्षिप्तेऽभिधीयते - विविक्तार्थसूत्रार्थदर्शनार्थत्वात्, आ हि षष्ठं कालद्रव्यमितरद् द्रव्यविविक्तं दर्शयत्ये कनयप्रवृत्तेः । न च जैने प्रवचने कथिदेको नयः समस्तं वस्तुस्वरूपं प्रतिपादयितुं प्रत्यल:, यतस्तत्प्रतिद्वन्द्विनयानुसारि सूत्रमपरमागमेऽस्ति““किमिदं भंते ! कालोत्ति पवच्चति ? गोयमा ! जीवा चैव अजीवा चेव" । इदं हि सूत्रमस्तिकायपञ्चकाव्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि, जीवाजीवद्रव्यपर्यायः काल इति सूत्रार्थः, कलनं कालः–प्रतिविशिष्टपर्यायोत्पादसङ्ख्यानम्, कल्यते वाऽनेन वस्त्विति कालः, स च वर्तनादिरूपो द्रव्यस्यैव पर्यायः, तत्र स्वयं सद्भावेन वर्तमानमर्थं या प्रचोकालस्य पर्यायता दयति वर्तस्व वर्तस्व मा न वर्तिष्ठाः हेतुमण्णिचि "ण्यासश्रन्थो युच्" (पा० अ०३, पा० ३, सू० १०७) इति स्त्रीलिङ्गे भावे वर्तना क्रिया, सा च वर्तितुर्भा वादनर्थान्तरं कालस्तत्परिणामत्वात्, द्रव्यमेव काल इति कर्मधारयवृत्तिर्द्रव्यार्थाभेदविवक्षायाम्, नहि वर्तनादिक्रियाभ्यो भिन्नं द्रव्यमस्ति, एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तत्वादान १' यता वर्तमान' इति क-ख- पाठः । २' प्रसृतेः' इति क-पाठः । ३ 'समस्तवस्तु' इति क-पाठः । ४ किमिदं भदन्त ! काल इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव । ५ " समयाइ वा आवलियाइ वा जीवाति या अजीवाति या पबुच्चइ " इति पाठस्तु स्थानाङ्गे ( सू० ९५ ), ६' द्रव्यस्यैव पर्याय:' इति क-ख- पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518