Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
४३० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ धानप्रत्ययौ यन्निमित्तौ तत्कारणमस्ति कालद्रव्यं, कालापेक्षे परत्वापरत्वे तन्निमित्ते च प्रत्ययाभिधाने प्रादुर्भवतः परमपरमिति, तथा युगपदयुगपदिति यनिमित्ते प्रत्ययाभिधाने स
. कालः, निमित्तविशेषे हि प्रत्ययविशेषः सिद्धयत्यभिधानविशेषश्च, कालद्रव्यस्य पार्थक्यम्
शुक्लकृष्णादिवत् । दृष्टश्चायं दिग्देशकारणकार्यकर्तृव्यतिरेकेण प्रत्ययो
युगपदयुगपदिति, स चायं नानिमित्तो भवितुमर्हति, यच्च निमित्त स कालः । इदमुक्तं भवति-तुल्यकार्येषु कर्तृषु साधारणकर्तृकेषु च कार्येषु पृथक् पृथय व्यवस्थितेषु कृतं क्रियते कर्तव्यमित्येतस्मिन् निरूढे कर्तृकर्तव्यभेदे च सति युगपदयुगपञ्च कृतं क्रियते कर्तव्यमित्येतमवधिं कृत्वाऽभिधीयते, यतः सोऽर्थोऽन्यः कालसंज्ञः, कृतादीनां योगपद्यायोगपद्येऽन्यनिमित्तासम्भवात् , न चानिमित्तमेतदभिधानम् , तथा समानकार्यावस्थानलक्षणेषु कर्मसु कर्तरि च व्यवस्थिते यत एतद् भवति चिरं क्षिप्रमिति सोऽन्योऽर्थः कालः, न चाकरमादयं प्रत्ययः, तस्मात् यत्सद्भावे भवत्येष प्रत्ययो यदभावे च न भवति स कालः। तुशब्दो विशेषपरिग्रहार्थः, स च विशेषो भेदप्रधानो नयः, तद्वलेन कालोऽपीति, अपिशब्दश्वशब्दार्थः, कालश्च द्रव्यान्तरमागमे निरूपितमिति कथयन्ति-"केति णं भंते ! दवा पण्णत्ता गोयमा छ दव्वा पण्णत्ता, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए"॥ विनिवृत्तौ वा तुशब्दः, कस्य व्यावर्तकः? धर्मास्तिकायादिपञ्चकाव्यतिरिक्तकालपरिणतिवादिनो द्रव्यनयस्येति, एवं कालोऽस्ति, स चापेक्षाकारणम् , तथाह्यश्वोऽद्यादीनि कालवचनानि स्वरूपविज्ञानव्यतिरिक्तमुख्यबाह्यार्थनिबन्धनानि असमासपदत्वाच्छुद्धैकपदत्वाद् रूपशब्दवत् , तथा ह्यआदीनि कालवचनानि यथार्थानि यथाभ्युपगममाप्तैस्तथाभिधीयमानत्वात् , प्रमाणावगम्यःप्रमेयोऽर्थ इत्येवंविधवचनवत् । एवं च सति तद्भावपरिणामलक्षणसूत्रसमुपनीतैकवाक्यभावस्योत्पादव्ययध्रौव्ययुक्तं सद्(सू०२९) गुणपयोयवद् द्रव्यम्(सू० ३७)इत्येतल्लक्षणसूत्रद्वयस्याशेषपदार्थव्यापित्वेन कालस्यापि सत्त्वद्रव्यत्वपरिणामित्वधर्मसद्भावः सिद्धः ॥ ननु च कालो नामाविभागी परमनिरुद्धः समय एवैकः समुच्छिन्नपूर्वापरकोटिः, अत एव चास्तिकाय इति नेष्टः, प्रदेशरहितत्वात् , तस्य च प्रागभावप्रध्वंसा. भावावस्थे असत्यावेव वत्स्यवृत्तशब्दाभिधेये, ततश्चोत्पादव्ययध्रौव्ययोगिता कुतः? कुतो वा गुणपर्यायवद्रव्यता कालस्येति । अत्रोच्यते-जिनवचनमनेकनयशतविभङ्गवृत्तिव्यनुस्यूतस
कलवस्तुभूमिव्यापि प्रधानोपसर्जनीकृतेतरेतररूपद्रव्यपयोयोभयनयावकाले उत्पादादिमत्ता लम्बि न कचिदेकान्तेन प्रतिष्ठते, प्रथितमेवैतत् , यतः योऽपि ह्यसाव
विभागः परमनिरुद्धः समय एको निष्प्रदेशः सोऽपि द्रव्यपर्यायाववद्धवृत्तिरेवेति, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधमोऽपि स्वरूपानन्यभूतक्रमाक्रममाव्यना
१ कति भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौतम ! षड् द्रव्याणि प्रज्ञप्तानि, तद्यथा-धर्मास्तिकायः, जीवास्तिकायः, भाकाशास्तिकायः, पुद्गलास्तिकायः, जीवास्तिकायः, अद्धासमयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518