________________
४३२
तत्त्वार्थाधिगमसूत्रम्
[ अध्याय: ५
तस्मान्मानुषलोक एव कालः, स च परिणामी, न पुनरेक एव विच्छिन्नमुक्तावलीमणिवदविद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते, निरन्वयसमयोत्पादविनाशप्रसक्तेः, एकनयात्रलम्बित्वं चैत्रं स्यात्, अतोऽनर्पितद्रव्य नयमतानुसारिभिः सन्ततिपक्षप्रतिज्ञानाद् विद्यमानतैव पूर्वोत्तरसमययोः, वर्तमानसमय एवोत्तर समयरूपेणोत्पद्यते तथापरिणामात्, नापूर्वमुत्पद्यते खपुष्पादि, नापि निरन्वयमेव किञ्चिद् विनश्यति कार्यत्वात् तत्सन्तानपतितत्वादुपान्त्यसन्ताननिरूपत्वात् न पुनः सर्वथैवोद्भवविनाशौ निराधारावेव, धौव्यं तयोराधारस्तस्मिन् सति तयोर्भावादिति । यच्च परत्वापरत्वादि काललिङ्गमभ्यधायि प्राक् तदपि नयान्तराभिप्रायादेव, अन्यथा तु स्थितिविशेषापेक्षे हि परत्वापरत्वे, षष्टिवर्षाद् वर्षशतिकः परापरत्वादेः परः, अपरः षष्टिवर्ष इति, स च स्थानविशेषः पष्टिर्वर्षाणां शतं वर्षाणास्थितिविशेषापेक्षिता मिति स्थितेरेव, सा च सत्त्वापेक्षा, अस्तित्वादेव भावानाम्, अस्तित्वं चानपेक्षमित्युक्तम्, तस्मात् कालापेक्षे परत्वापरत्वे न भवतः, यौगपद्यमपि कर्तृषु व्यवस्थितं तेषामेव कर्तॄणां कांश्चित् क्रियाविशेषानपेक्षते, न कालम्, न च ते क्रियाविशेषास्ताभ्यः क्रियाभ्यो ऽत्यन्तमेव नाना भवितुमर्हन्ति, यदा तु काकतालीयेनैकः कर्ता तथाविधक्रियामापद्यतेऽन्योऽपि कर्ता तथैव तत्क्रियापरिणतस्तदा युगपदिति व्यपदेशः, एवमयुगपदित्यपि भावनीयम् ॥ तथा चिरक्षिप्रयोरेष एव प्रपञ्चः, ते च गतिविशेषापेक्षे, गतिश्च परमाण्वादिद्रव्यप्रतिबद्धेति ॥ अथ कस्मादादावेकनयालम्बनेन सूत्रार्थमुपक्रम्य पुनर्नयद्वयेनोपसंहरति भवानित्याक्षिप्तेऽभिधीयते - विविक्तार्थसूत्रार्थदर्शनार्थत्वात्, आ हि षष्ठं कालद्रव्यमितरद् द्रव्यविविक्तं दर्शयत्ये कनयप्रवृत्तेः । न च जैने प्रवचने कथिदेको नयः समस्तं वस्तुस्वरूपं प्रतिपादयितुं प्रत्यल:, यतस्तत्प्रतिद्वन्द्विनयानुसारि सूत्रमपरमागमेऽस्ति““किमिदं भंते ! कालोत्ति पवच्चति ? गोयमा ! जीवा चैव अजीवा चेव" । इदं हि सूत्रमस्तिकायपञ्चकाव्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि, जीवाजीवद्रव्यपर्यायः काल इति सूत्रार्थः, कलनं कालः–प्रतिविशिष्टपर्यायोत्पादसङ्ख्यानम्, कल्यते वाऽनेन वस्त्विति कालः, स
च वर्तनादिरूपो द्रव्यस्यैव पर्यायः, तत्र स्वयं सद्भावेन वर्तमानमर्थं या प्रचोकालस्य पर्यायता दयति वर्तस्व वर्तस्व मा न वर्तिष्ठाः हेतुमण्णिचि "ण्यासश्रन्थो युच्" (पा० अ०३, पा० ३, सू० १०७) इति स्त्रीलिङ्गे भावे वर्तना क्रिया, सा च वर्तितुर्भा वादनर्थान्तरं कालस्तत्परिणामत्वात्, द्रव्यमेव काल इति कर्मधारयवृत्तिर्द्रव्यार्थाभेदविवक्षायाम्, नहि वर्तनादिक्रियाभ्यो भिन्नं द्रव्यमस्ति, एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तत्वादान
१' यता वर्तमान' इति क-ख- पाठः । २' प्रसृतेः' इति क-पाठः । ३ 'समस्तवस्तु' इति क-पाठः । ४ किमिदं भदन्त ! काल इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव ।
५ " समयाइ वा आवलियाइ वा जीवाति या अजीवाति या पबुच्चइ " इति पाठस्तु स्थानाङ्गे ( सू० ९५ ), ६' द्रव्यस्यैव पर्याय:' इति क-ख- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org