SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३८] स्वोपज्ञभाष्य-टीकालङ्कृतम् द्यपर्यवसानानन्तसङ्ख्यपरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात् सामान्यपरमार्थ एव, अतः सन्नेव न कदाचिदप्यसन् , स एव ह्यःप्रभृतिपर्यायैरुत्पादव्ययस्वभावैः प्रतिपर्यायमाघातस्वरूपत्वादाविर्भावतिरोभावावनुभवन् विनाशीति, तद्यथा-श्वोभावेन विनश्याद्यत्वेन प्रादुर्भवति, अद्यत्वेनापि विनश्य ह्यस्त्वेनोत्पद्यते, कालत्वेन तु श्वोऽद्यह्य पर्यायेषु सम्भवित्वादन्वयरूपत्वाद् ध्रुव एव, ततो य एवोत्पद्यते स एव विनश्यति द्रव्यार्थतः स एवावतिष्ठते अनन्यत्वात् सर्वदापि, तथा य एव विनश्यति स एवोत्पद्यतेऽवतिष्ठते चेत्युत्पादव्ययध्रौव्याण्येकाधिकरणानीति, न हि श्वोऽद्यादय उत्पादविनाशाः कालध्रौव्यमन्तरेण, नि:जत्वान्निराधारत्वात् खपुष्पवत् , नापि कालध्रौव्यं ह्यःप्रभृत्युत्पादविनाशावन्तरेण, अपरिणामित्वाद व्योमोत्पलादिवदेव । तस्मादेवं निरूपिते वृत्तो वय॑ति च द्रव्यार्थत्वेन कालः सद्भिः स्वपर्यायैरामृष्टो विवक्षित उपनीतोऽस्तीति भावितमेव ॥ पर्यायार्थतया त्वत्यन्तविविक्तरूपत्वात् पर्यायाणां प्रत्युत्पन्नमात्रविषयत्वादतीतानागतयोरभावादेव न वृत्तो नापि वय॑न्निति, तेन प्रकारेणासत्त्वम् । अतः स्यात् सत्त्वं स्यान्नास्तित्वमिति व्यवस्थानात् सन् गुणपर्यायवांश्च कालः , एष च निवतेकहेतोः कर्मणः कालोऽपेक्षाकारणं मनुष्यलोके प्रत्यक्षलिङ्गः, तानि च लिङ्गानि प्रतिनियमवर्तीनि वर्षोष्णशीतवाताशनिहिमतडिदभ्रगर्जितोल्काङ्कुरकिसलयपत्रफलहरितप्रसूनोदयप्रवासतारानुचक्रक्रमादीनि, तथा प्रयोगोऽपि-प्रतिनियतव्ययस्थाभाविनो वर्षा दिवनस्पत्यादिपरिणामा यथास्वं परिणामिकारणव्यतिरिक्तापेक्षाकारणद्रव्यान्तरवृत्तिसापेक्षप्रादुर्भावाः, असन्ततैकरूपपरिणामत्वे सति प्रतिनियतव्यवस्थयोत्पद्यमानत्वात् , तदानीमात्मलाभत्वात , तद्भावमापाद्यमानत्वाद् , बहिःप्रकाशापेक्षिरूपान्तरविनिश्चयाभिमुखीभूतचक्षरिन्द्रियविज्ञानवत, स्वसमये वा धर्माधर्मद्रव्योपकारजनितजीवपुद्गलगतिस्थितिवत, अर्धवतीयद्वीपव्यापित्वेऽपि समयस्य भोगभूमिषु नास्ति किञ्चित् काललिङ्गं, व्यवस्थितपरिणामत्वात, यतः सम्भवतामर्थानां स्वयं स्वभावेन कालोऽपेक्षाहेतुरुक्तः, न निर्वर्तक इति । एवं तबसम्भवि लिङ्गोऽपि भोगभूमिषु यथाऽस्ति कालस्तथाऽर्धतृतीयद्वीपक्षेत्राद् बहिरपि भाववृत्ती ... किमिति नाभ्युपगम्यते ? अपि च–वर्तनं तत्रास्ति परत्वापरत्वादिकालस्यापक्षिता लिङ्गच. प्रत्यक्षदृश्यमानकाललिङ्गत्वाद् भरतादिक्षेत्रवत् स्यात् तत्र काल इति, अत्रोच्यते--सत्यामपि तत्र भावानां वृत्तावविशेषेण तस्याः काललिङ्गत्वाभाव इत्यसिद्धता हेतोः। नहि सर्वा वृत्तिः कालापेक्षा। यत्र तु कालस्तत्रासौ वर्तनाद्याकारेण परिणमत इति नियमः। कदाचिद् वा शङ्केत परः बाह्यद्वीपेषु वृत्तिर्भावानां कालापेक्षा वृत्तिशब्दवाच्यस्वात् प्रयोगनिरपेक्षेहत्यचूतकुसुमवृत्तिवदिति, एतदप्ययुक्तम्, अलोको हि सम्प्रति विद्यमानत्वाद् वर्तते, न च तत्र कालोऽस्तीत्यनेकान्तिकत्वात्, समयवृत्या वोऽनेकान्तः, १'नन्तरसंख्य ' इति क-पाठः । २'वत्स्येति नैतेन' इति क-पाठः । ३ 'परव्यक्त इति प्रत्यन्तरे। इति ग-टी-पाठः । ४ 'शब्दावाच्यत्वात्' इति क-पाठः। ५' वाऽनैकान्तः' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy