________________
४३३
सूत्रं ३९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् न्त्यम्, द्रव्यं च द्विविधं जीवाजीवात्मकत्वात् , तसाज्जीवाजीवाः समयावलिकादिभेदवाच्याः, तत्परिणतिरूपत्वात् , द्रव्यास्तिकस्य हि द्रव्यं द्रव्यार्थतामात्रमेकमभिन्नं सर्वव्यापि, तथाऽत्यन्तमपास्तव्यतिरेकम् , अन्वयमात्रसग्राहिणः कालसामान्यमेकमेवोपचरितविशेषम् , अतश्चेतनाचेतनद्रव्यविपया वर्तना सादिसपर्यवसितादिभेदेन चतुर्विकल्पा सा द्रव्यस्य कालः सुरसिद्धभव्याभव्यस्कन्धानागतातीतव्योमादिनिदर्शनसाध्यः, अद्धाकालस्यापि सूर्यादिक्रियाविशिष्टत्वान्न द्रव्यव्यतिरेकित्वम् , यतो यदाकाशखण्डमुष्णांशुना स्वयमंशुभिश्च संयुक्तं तस्याऽहरिति नाम, यदन्यत् सा रात्रिरिति, तस्याहोरात्रस्य परमसूक्ष्मोऽत्यन्तविच्छेदः कश्चिदविभागी भागः समय उच्यते । एतत्प्रचयविशेषाश्चावलिकादयः। सोऽयमद्धाकालः समयादिः समयक्षेत्रप्रतिबद्धो द्रव्यकालान व्यतिरिच्यते, एवमेष नयः प्रथमोपन्यस्तनयप्रत्यनीकतया प्रवृत्तः सकलवस्तुसद्भावप्रतिपादनायाक्षम एवेत्युभयनयसामग्रीप्रतिपाद्यवस्तुस्वभावो निरवद्यः, सूत्रकारस्याप्येष एवाभिप्रायः सूत्रेणैकीयमतमुपन्यस्यतः, इत्येके इत्थमाचक्षतेऽन्ये त्वन्यथेति ॥ सम्यग्ज्ञानं पुनः सामग्र्यामेव सम्पद्यते, न प्रकारान्तरेणापीति, एवं प्रसिद्धेन कोलद्रव्येणानेकरूपो व्यवहारः प्रतीयते वृत्तवतेमानवत्स्येद्विषय इति ॥ ३८ ॥
इह (सू०३८) द्रव्यलक्षणाधिकारेऽभिहितम्-कालश्चेत्येके इति द्रव्यत्वप्रतिपिपादयिषया, कालस्यास्य च द्रव्यत्वे सत्युपकारेण भवितव्यमित्युपकारो वर्तनादिलक्षणः प्रथममेव प्रतिपादितः, तथा धर्मादिद्रव्याणामसख्येयाः प्रदेशाः, तथा धर्माधर्मयोरित्यादिना सूत्रकलापेन प्रदेशपरिमाणमभिहितम्, अस्य तु कालद्रव्यस्य नोक्तं प्रदेशपरिमाणम् , तत्र तद्विवक्षया त्विदमुच्यते-सोऽनन्तसमयः । अथवा एकान्तेन कालद्रव्यमेकमपरिणामीच्छन्ति केचित, तत्प्रतिक्षेपार्थमिदमाहफालस्य समयाः सूत्रम्-सोऽनन्तसमयः ॥५-३९ ॥
टी-स इत्यनन्तरसूत्रप्रतिपादितो द्रव्यविशेषः कालाख्योऽनन्तसमयः परिणामी प्रतिपत्तव्यः, तत्राविभागी यः कालः परमनिरुद्धश्च समयः स कालावयव इत्यर्थः, स च न माक्तः, किं तर्हि १ पारमार्थिकः, अनन्तशब्दः सम्ख्यावाची, अनन्ताः समया:-पयोया भेदा यस्यासावनन्तसमयः । उक्तं (सू० ३७)-गुणपर्यायवद् द्रव्यलक्षणं, सर्वे च द्रव्यमनन्तपर्यायमिष्यते, ते च पर्यायाः स्वपरभेदभाजः, यथैकस्याणोः शुक्लसुरभितिक्तादयस्तदन्यद्रव्यवर्तिनश्च संस्थानवोदयः, तथैकस्य कालद्रव्यस्यानन्तप्रदेशस्यान्येऽपि सत्त्वज्ञेयत्वद्रव्यत्वकालत्वादयोऽर्थपर्याया वचनपर्यायाश्चानन्ता एव, वर्तनादिलक्षणस्यातीतसाम्प्रतानागतशब्दवाच्याः परिणामविशेषा इति, एनमेवार्थ भाष्येण स्पष्टयति
भा०–सं चैष कालोऽनन्तसमयः । तत्रैक एव वर्तमानसमयः, अतीतानागतयोस्त्वानन्त्यम् ॥ ३९ ॥
१. सर्व एष' इति क-ख-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org