________________
तत्त्वार्थाधिगमसूत्रम्
[ अन्याय: ५
1
टी० - स चैष काल इत्यादि । स इति प्रक्रान्तपरामर्शादेष इत्यनेन सूत्रेणानुसन्धीयते कालः, शब्दो हेतौ यस्मादनन्तसमयस्ततः परिणामीति, अनाद्यनन्तभाविन्यां समपरम्परायां सङ्ख्यानं प्रत्यनिर्दिष्टलक्षणायां विशिष्टसङ्ख्यानिरूपणायेदमाह - अनन्तसमय इति । सप्रदेशः कालो द्रव्यत्वादात्माकाशादिवत्, ततश्च परिणाम्यपि प्रदेशवस्वात् तद्वदेवेति, तत्रेति तस्मिन् कालद्रव्ये वर्तमाने, एक एव प्रदेशः समयलक्षणः तिर्यगर्धतृतीयद्वीपसमुद्रद्वयव्यापी ऊर्ध्वमधश्चाष्टादशंयोजनशतप्रमाणः कालच्छेदेनानवयवः क्षेत्रच्छेदेनादेशोऽपि कल्पितावयवो भावभेदेन वा सावयवः, शेषद्रव्योपकार्योपकारकत्वेन स्वगतेन चागुरुलघुलक्षणेन परिणामेनेति, न चायमस्माकमेकान्ताग्र होऽनवयव एवेति, किन्तु विभज्याविभज्यार्थस्य व्याकरणादर्पितानर्पित सिद्धेः कालतो द्रव्यतश्चार्पितोऽनवयवः, तस्योत्पत्त्यनकालेऽवयवविचारः न्तरविनश्वरत्वात् एकस्य समयस्य कालकृता देशा न सन्त्येव, यथा कालकृत देशैरनवयव एवं द्रव्यकृत देशैरपीति, क्षेत्रतो भावतश्च सावयव एव, उत्पद्यमानसमयपरिणामिकारणमेतीतसमयकार्यं वर्तमानावस्थामनुभूय वृत्तपर्यायमनुभविष्यति, प्राप्तवर्तमानत्वाच्च वत्र्त्यत्यपीत्ये क क समयस्य द्रव्यता, अतः प्रदेशावयवत्वात् का व्यपदेश्योऽपि, कालद्रव्यप्रदेशावयवैर्नास्ति कायता, व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्यास्तिकायताऽपहोतुं शक्या, आगमे तु क्वचित् प्रदेशे नित्यतया व्यवहारः, कचिदनित्यतया । न चैकान्तेन नित्यत्वमनित्यत्वं वा युक्तमित्यलं प्रसङ्गेन । प्रकृतमुच्यतेवर्तमान एकः समय इति निरूप्यैवमतीतानागतयोर्निरूपणायेदमाह– समयराश्योः कियती सङ्ख्येति ॥ अतीतानागतयोस्त्वानन्त्यम् ॥ अतीताः सपर्यवसाना वर्तमानावधिकाः सन्तत्याऽनाद्या इत्यतोऽनन्ताः, तथाऽनागताः साद्या वर्तमानावधिकाः पर्यवसानशून्याः सन्तः त्यैव, अनन्तस्य भाव आनन्त्यं - सङ्ख्याख्यो गुणः, स च न सङ्ख्येयसङ्ख्या नासङ्ख्ये - यसङ्ख्येति, किं तर्हि ? अनन्तसङ्ख्यैव, तुशब्दः समुच्चये । अतीतोऽनागतश्च समयराशिरनन्त इति, स चातीताद्धा अनागताद्धा च शेषकायेभ्योऽल्पबहुत्वचिन्तायां पृथगेवोक्ता, न पञ्चास्तिकायधर्मत्वेनेति, अभव्येभ्योऽनन्तगुणाः सिद्धाः सिद्धेभ्योऽतीत समय राशिरसइख्येयगुणः, अस्माद् भव्यास्त्वनन्तगुणाः, भव्येभ्योऽनन्तगुणाः वर्त्स्यत्समयाः, इत्येतदल्पबहुत्वमस्तिकाय - पञ्च (त्व एव ) कालद्रव्यस्य घटत इति ॥ ३९॥
४३४
भा०—अत्राह-उक्तं ( अ० ५, सू० ३७ ) भवता - गुणपर्यायवद् द्रव्यमिति । तत्र के गुणा इति १ । अत्रोच्यते
टी० - अत्राह-उक्तं भवतेत्यादिना सम्बन्धमावेदयति । द्रव्याधिकारसम्बन्धेन कालद्रव्यं सपर्यायमभिधाय गुणपर्यायस्वरूपं निरूपयितुकामो भाष्यकारः परमेव प्रश्नं कारयति ।
१ 'मतीतः समय' इति क-पाठः । २ 'येभ्य' इति क-पाठः । ३ 'चा' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org