________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ अधुना सप्तमविकल्पश्चतुर्भिरेशैस्वयंशः । कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषं च कश्चिदङ्गीकृत्य नास्तित्वं समुचितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात्, यात)था द्रव्यसामान्येन पयोयसामान्येन च युगपदवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चास्मेति । भावना तु द्रव्यार्थात् सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तात्मत्वेन विशेषेण नास्ति
त्वमतोऽस्ति च नास्ति च स एवात्मा, द्रव्यपर्यायसामान्यसदसत्त्वाभ्यां सप्तमो विकल्पः युगपदवाच्य इति । एवमर्थानुरोधाद् विवक्षावशाच सप्तधैव वचनप्रवृत्तिः,
नान्यथाऽपि, प्रवृत्तिनिमित्ताभावात, एष च मार्गों द्रव्यार्थपर्यायार्थाश्रयः, तौ च सङ्ग्रहाद्यात्मको, सङ्ग्रहादयश्वार्थशब्दनयरूपेण प्रधाविताः, तत्र सङ्ग्रहव्यवहारर्जुसत्रैरर्थनयैयौँ द्रव्यार्थपर्यायार्थी तदाश्रयैषा सप्तभङ्गी । तत्र अनपेक्षितोपदेशकशब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानम्, अर्थनया वक्तृपरिच्छेदविषयाः, ते त्वर्थपृष्टेनैवार्थे गमयन्ति । शब्दनयास्तु साम्प्रतिकसमभिरूढैवंभूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मकाः शब्दरूपरूपितविज्ञानत्वाच्छब्दप्रमाणकाः, यच्छब्द आह यथा च तथैवार्थ इति शब्दपृष्टेनार्थपरिच्छेदं कुर्वन्ति, अत एवैतेष्वभिधानस्वरूपशुद्धिपरा चिन्ता, चक्षुर्विमलीकरणाञ्जनवत् । तत्रार्थनयाः सत्त्वासत्त्ववर्तमानसत्त्वमात्रैषिणः प्रत्येकात्मकाः संयुक्ताश्च सप्तविधवचननिर्वचनप्रत्यलाः । विविक्तसत्त्वमात्रपरिग्रहात् सत्त्वसङ्ग्रहः, अन्यासत्त्वमेव सत्वमिति व्यवहारः, वतेमानप्रधानत्वाद् वतेमानमेव सत्त्वमृजुसूत्रः । तत्र स्यादस्तीति सङ्ग्रहः १ स्वाभास्तीति व्यवहारः २ सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः ३ सङ्ग्रहव्यवहारविभागसं
योगादेव स्यादस्ति च नास्ति च ४ स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः नयत्रयापेक्षया सहव्यवहारौ चाविभक्तौ ५ स्यानास्त्यवक्तव्यश्चेत्यत्र व्यवहारः सनसप्तमगी
हव्यवहारौ चाविभक्तौ ६ स्यादस्ति नास्त्यवक्तव्यश्चेत्यत्र विभक्तौ सङ्गह
व्यवहारावविभक्तौ वा७,इत्येवमर्थपर्यायैः सप्तधा वचनव्यवहारः। व्यञ्जनपर्यायाः शब्दनयास्ते त्वभेदभेदद्वारेण वचनमिच्छन्ति, शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति, न जातचिद् भिमलिङ्गं भिनवचनं वा शब्दं स्त्री दारास्तथाऽऽपो जलमिति, समभिरुढस्तु प्रत्यर्थ शब्दनिवेशादिन्द्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते, अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वाद् मिन्नार्थत्वमेपानुमन्यते, घटशकादिशब्दानामिवेति, एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापुच्छ
तीच्छति, चेष्टाविष्ट एवार्थो घटशब्दवाच्यश्चित्रालेखनोपयोगपरिणशब्दनया तथ चित्रकारः, चेष्टारहितस्तिष्ठन् घटो न घटशब्दषाच्या, तच्छन्दा
र्थरहितत्वात, कुटशब्दवाच्यार्थवत्, नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद् गोपालादिवत्, एवमभेदभेदार्थवाचिनोऽने
१. अभ्यासत्वमिति' इति क-पाठः । १ 'क्षेत्रालेख्यतोपपोग' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org