SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सूत्र ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् ४१७ पर्याया असत्त्वाद्रव्यत्वानात्मत्वाचेतनत्वादयः, तद्रव्यक्षेत्रकालभावसम्बन्धजनिताश्च द्रव्यपर्यायवृत्तिभेदाः, तत्र द्रव्यार्थादेशात् स्वद्रव्यतया द्रव्यत्वम्, पृथिव्यादित्वेनाद्रव्यत्वं तद्विशेषैश्च घटादिभिः, क्षेत्रतोऽसङ्ख्याताकाशदेशव्यापितया, न सर्वव्यापितया, कालतः स्वजात्यनुच्छेदादभिन्नकालता, पर्यायादेशाद्घटादिविज्ञानदर्शनभेदाः क्रोधाद्युत्कर्षापकर्षभेदाच, तथाऽनन्त . कालवृत्तस्ववर्तनाभेदात् कालभेदः, भावतो ज्ञत्वं क्रोधादिमत्त्वं च, एवं चतुर्थो विकल्पः बहवो द्रव्यार्थपर्यायार्थयोवृत्तिभेदाः सर्वेऽपि तस्यांशाः, तैर्द्रव्यपर्याय रूपैर्वक्तमिष्यमाणो नानारूप आत्मोच्यते । भावना तु स्यादस्ति च नास्ति च, द्रव्यार्थभेदेन चैतन्यसामान्येनास्ति, चैतन्यविशेषविवक्षायां वाऽस्त्येकोपयोगत्वात्, पर्यायतस्तु अचैतन्येन नास्ति, घटोपयोगकाले वा पटाधुपयोगेनासन्, चैतन्येन तद्विशेषेण वा वर्तमान एव तदभावेन तद्विशेषाभावेन वर्तते इत्युभयाधीनस्तस्यात्मा, अन्यथाऽऽत्माभाव एव स्यात् । एवं सर्वसिद्धान्तेषु पदार्थाः परस्परविरुद्धार्थत्वात् तदतद्रूपसमुच्चयात्मकाश्चतुर्थविकल्पोदाहरणीयाः ॥ पञ्चमविकल्पस्तु स्यादस्ति चावक्तव्यश्वात्मेति, तत्रानेकद्रव्यपर्यायात्मकस्य सतः कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तीत्यात्मनो व्यपदेशः, तस्यैवान्यात्मद्रव्यपञ्चमो विकल्पः सामान्यं तद्विशेष द्वयं वाऽङ्गीकृत्य युगपद्विवक्षायामवक्तव्यता, स्फुट तरमेतद् विभाव्यते, स्यादस्त्यात्मा द्रव्यत्वेन द्रव्यविशेषेण वा जीवस्वेन मनुष्यत्वादिना वा द्रव्यपर्यायसामान्यमुरीकृत्य, वस्तुत्वावस्तुत्वसत्त्वासत्त्वादिना विशेषेण वा मनुष्यत्वामनुष्यत्वादिना युगपदभेदविवक्षायामवाच्यः, यतः सर्वेऽपि तस्यैकस्यामनस्तदैव विकल्पाः सम्भवन्तीति ॥ षष्ठविकल्पोऽपि त्रिभिरात्मभिद्यशः स्यान्नास्ति चावक्तव्यश्चात्मेति, नान्तरेणात्मभेदं वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं शक्यं कल्पयितुं वस्तुनः, तथापि षष्ठो विकल्पः सद्भावात् तत्र नास्तित्वं पर्यायाश्रयम्, स च पर्यायो युगपद्वृत्तः क्रमप्र वृत्तो वा, सहावस्थाय्यविरोधादात्मनो धर्म एककाल एव, यथा चेतनोपयोगवेदनाहर्षसम्यक्त्वहास्यरतिपुरुषवेदायुर्गतिजात्यादिसत्त्वद्रव्यत्वामूर्तत्वकर्तृत्वभोक्तृत्वान्यस्वानादित्वासङ्ख्यातप्रदेशत्वनित्यत्वादिः,क्रमवर्ती तु क्रोधादेिवत्वादिवालत्वादिज्ञानितादिः खस्थानेऽनेकभेदवृत्तः, तत्रैकोऽवस्थितो द्रव्यार्थी जीवनामा नैवास्ति कश्चिचेतनाव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैरन्तयमात्रव्यतिरिक्तो वा, अत एव तु धर्मास्तथासन्निविष्टाः सत्त्वव्यपदेशव्यवहारभाजो भवन्तीति, अतो नास्ति पर्यायार्थादेवंविधो द्रव्यार्थस्य कश्चिदंशो नास्तीति तेन रूपेणाभावात्, न पुनः सर्वथैव नास्तित्वम्, विशिष्टस्याभावस्य विवक्षितत्वात्, पर्यायांशः सर्वार्थज्ञातृत्वांसत्सर्वव्यापारविनियोगात् सर्ववस्तुत्वेन सन्निति द्रव्यार्थाशः, आभ्यां सह-विवक्षायामवाच्य इति द्वितीयोऽशः॥ १वाऽन्य आत्म०' इति ग-पाठः । २ 'वत्वादिज्ञातादिः देवत्वादिस्वस्थाने' इति क-ख-पाठः। ३त्वासर्व०' इति क-पाठः। ५३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy