________________
सूत्र ३१ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
४१९
कैकशब्दवाच्यार्थावलम्बिनथ शब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपादर्थस्य प्रतिभा - सकाः व्यञ्जनपर्याय संज्ञकाः । तदेवमर्थव्यञ्जनपर्यायार्पणानर्पणद्वारैकाने कात्म कै कार्थ निरूपणवदभिधानप्रत्यय विषयाऽपि भावनाऽभिधेया । तत्र पुद्गलद्रव्यपरिणतिविशेषः शब्दोऽभिधानः, पुद्गलद्रव्यं चातीतवर्तमानागामिभूरिपर्यायपेरिणाम्यर्पितभजनापेक्षया सदसन्नित्यानित्याद्यनेकधर्मात्मकम् प्रत्ययो ऽपि हि ग्रहणलक्षणात्मद्रव्यांशापेक्षया सङ्ख्यापरिमाणाकाराद्यनेकरूपपर्यायापेक्षया च सदसन्नित्यानित्यादिस्वभाव इत्येवं सदसन्नित्यानित्यादिस्वभावं जगत् पञ्चास्तिकायात्मकमर्पितानार्पितलक्षणसकलशास्त्रगर्भत्रिसूत्री विन्यासस्याद्वादप्रक्रियासङ्गतेः सिद्धम् । ३१ ॥
भा०—अत्राह – उक्तं भवता (अ० ५, सू० २६ ) – सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्ते इति । तत् किं संयोगमात्रादेव सङ्घातो भवति, आहोस्विदस्ति कश्चिद विशेष इति । अत्रोच्यते
टी० – अन्नाह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः । प्रतिपादितार्थ स्मारणप्रज्ञेनाज्ञः प्रकृतार्थशेष सम्बन्धमभिधापयति, कारणायत्तजन्मा कार्यप्रसवः, सङ्घातात् स्कन्धाः समुत्पद्यन्ते, इतिशब्दो यस्मादर्थः तच्छब्दस्तस्मादर्थः, यस्मात् सङ्घातात् स्कन्धानामुत्पत्तिः प्रतिधीयते तस्मात् सन्देहः, किं संयोगमात्रादेव व्यणुकादिलक्षणः स्कन्धो भवति, आहोस्विदत्यत्र कश्चित् संयोगविशेष इति, मात्रग्रहणं सेनावनादिवत् केवलसं सक्तिप्रतिपादनार्थम्, संयोगमात्रं न तु संयोग विशेषाः, इतिशब्दः आशङ्केयत्ताप्रतिपत्तये, आचापुनलबन्धहेतुः र्यस्यापि चित्तपरिवर्ती संयोगविशेषस्तत्प्रतिपादनायात्रोच्यते इत्याह, अत्रेति प्रश्नविषयाभिसम्बन्धः यत्पृष्टस्त निश्चीयते विधीयत इति, मनीषितसंयोग विशेषाभिव्यक्त्यर्थमाह
भा० - सति संयोगे बद्धस्य सङ्घातो भवतीति । अत्राह - अथ कथं बन्धो भवतीति ? । अत्राह -
टी० – सतीत्यादि । सति परस्परसङ्घट्टलक्षणे संयोगे बद्धस्यैव - एकत्वपरिणतिभाजः सङ्घातात् स्कन्धोत्पत्तिः, एवकारार्थमितिकरणम्, पुद्गलानां पर्यायानन्त्येऽपि स्वजात्यनतिक्रमेण परस्परविलक्षणपरिणामाहित सामर्थ्यात् सति संयोग विशेषे केषाञ्चिदेव बन्धो न सर्वेषामिति निश्चितमेतत्, संयोगविशेषात् स्कन्धोत्पादः, न पुनर्व्यज्ञायि स्वरूपेण संयोगविशेषः, तत्परिज्ञानाय प्रश्नेनोपक्रमं पुनः परस्य प्रकटयति — अत्राहेति । सति सङ्घाते बन्धस्य सतः स्कन्धपरिणाम इति बन्धमेव पृच्छति - अथ बन्धः कथं भवतीति । अथेत्यानन्तर्यार्थः, बद्धस्य स्कन्धपरिणामो भवतीत्युक्तेऽनन्तरं च य एव जिज्ञास्यते बन्धः - एकत्वपरिणामः स कथं - केन प्रकारेणावोरणूनां वा जायते इति, किं परस्परानुप्रवेशेनाहोस्वित् सार्वात्म्येन प्रवे
१ · परिणत्यर्पितभजनापेक्षया ' इति क ख पाठः | २' न्नित्यादि ' इति क ख पाठः । ३ ' जायन्त ' इति ग- पाठो विचारणीयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org