________________
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
शाभावेऽपीति १ अत्रोच्यते - परस्परानुप्रवेशस्तावन्नैवेध्यतेऽण्वोरथूनां वा शुषिराभावात् प्राक् चैतन्निर्णीतं प्रपञ्चतः, स्थापितं चेदं - परिणति विशेषादणुनां सर्वामत्ना बन्धो भवति, अयस्पिण्डतेजसोरिवान्योन्यप्रदेशाभावेऽपि गुणविशेषात् सार्वात्म्येनेष्यते बन्धः । कीदृशः पुनर्गुणविशेषात् स तादृशो बन्धः स्यादित्याह -
४२०
सूत्रम् - स्निग्धरूक्षत्वाद् बन्धः ॥ ५-३२ ॥
भा०—– स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोर्बन्धो भवति ॥ ३२ ॥ ह - किमेष एकान्त इति । । अत्रोच्यते
अत्राह
0
टी० - स्निग्धरुक्षयोरित्यादि भाष्यम् । स्नेहो हि गुणः स्पर्शाख्यः, तत्परिणामः स्निग्धः, तथा रूक्षोsपि, एकः स्निग्धोऽपरो रूक्षः, तयोर्भावः स्त्रिग्धरूक्षत्वं तत्परिणामापत्तिः तस्मात् स्निग्धरूक्षत्वादिति हेतौ पञ्चमी, अण्वोरणूनां वा बन्धो भवति, स्त्रिग्धरूक्षयोरिति भाष्यकता विभज्य द्विवचनप्रयोगोपन्यासोऽकारि सर्वाल्पस्कन्धज्ञापनाय नातः परमल्पावयवः स्कन्धोऽस्ति, स्निग्धरूक्षव्यवहारः क्षेत्रकालविषयोऽपि भोक्तः समस्तीति तद्व्युदासाय पुनलयोरित्याह, पूरणाद् गलनाच्च पुद्गलाः, पूरकत्वेन स्कन्धान् निर्वर्तयन्ति, गलनेन स्कन्धभेदं विदधति, स्पृष्टयोरिति संयुक्तयोर्नासंयुक्तयोरिति, अनेन संयोगमात्रं गृहीतं संयोगपूर्वकसकलबन्धज्ञापनार्थम्, तत्र बन्धात् प्रतिघातो जायते ऽण्वोरणूनां वा, प्रतिघातश्चैकदेशावगाहेऽन्योन्यं प्रतिहननम्, ततो रौक्ष्यस्नेह विशेषाद् बन्धः - अण्वन्तरेणाणोः श्लेषः, मृद्रजोभिस्तृणादिबन्धवत्, सन्ति द्यणव एकगुणस्निग्धादिक्रमेण सङ्ख्येयासङ्ख्येयानन्तानन्तगुणस्निग्धाः, तथैकगुणरूक्षादिक्रमेण हीनमध्यमोत्कृष्टस इख्येयासङ्ख्येयानन्तानन्तगुणरूक्षाः, तोयाजागोमहिष्युष्ट्रीक्षीरघृतस्नेहानुमानप्रकर्षाप्रकर्षवत्, चिकणत्वलक्षणः परिणामः स्नेहः, तद्विपरीतो रूक्षः, ततश्च संश्लेषकारणपरिणतिमच्चात् सर्वात्मसंयोगबन्धप्रसिद्धिः, प्रत्यक्षश्चैवंविधद्रव्याणां बन्धविशेषो नातीव युक्तिमपेक्षते, युक्तिरपि संहतमहद्द्रव्यं घटादि प्रत्यक्षमणुबन्धस्यानुमापकम्, नाणुसत्संहतिविशेषमन्तरेण महत् संहतं युज्यते, एवमेव चापकर्षणधारणनोदनादिव्यवहारसिद्धिर्न त्वन्यथा, तथानुपग्रहणात् प्रतीघातः परमाणोः, लोकान्ते ह्युपग्राहकधर्मद्रव्याभावात् प्रतिहन्यतेऽणुरगतिः सन् तथाऽणोः प्रतीघातो बन्धनयोग्यं परिणाममन्तरेणाप्यते, नापतता ( १ ) स्पर्शित्वान्मूर्तिमश्वाच्च, सप्रतिघातस्य च बन्धो दृष्टः श्लेषरूपरागादेः, अतः सुष्टृच्यते - स्निग्धरूक्षत्वात् पुद्गलयोः संयुक्तयोर्बन्धो भवतीति । इतिकरण उपप्रदर्शनार्थः, एवं गृहाणेति ॥ ३२ ॥
अत्राहेत्यादिसम्बन्धप्रतिपत्तिः । किमेष एकान्त इति । किमिति प्रश्नार्थः, एष
,
१' नोक्तः' इति क- पाठः । २ ' क्षादि... नन्तगुणरू ' इति पाठ: ग-पुस्तके नास्ति, तत्र तु मुद्रणदोष इति स्पष्टं प्रतिभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org