Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 446
________________ सूत्र ३१] _ स्वोपज्ञभाष्य-टीकालङ्कृतम् ४१५ इदानीमवक्तव्यताविभावनायाह ____भा०—तदुभयपर्याये वा, तदुभयपर्याययोर्वा, तदुभयपर्यातृतीयो विकल्पः येषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वाच्यं सदसदिति वा। टी०–तदुभयपर्याये वेत्यादि । तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसम्परिग्रहार्थः, उभयश्चासौ पर्यायश्च उभयपर्यायोऽस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पितमात्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम्, ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते, न वाच्यं सदित्यसदिति वा सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम्, क्रमेण त्वादेशे भवत्येतदेवम्, सहभावार्पणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम्, एकस्मिन् काले ताग्विधवाचकशब्दाभावात् ॥ ननु च तदुभयपयोये वेत्येकवचनमनुपपन्नम्, एकपर्यायविवक्षायामवक्तव्याभावात् । अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते । एवं तर्हि तदुभयपर्याययोर्वेत्यसादविशेषः , नैतदेवम् , यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायस्तत् तु खपोयेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यमिदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानमेदव्याख्यायां द्विवचनादिनिर्देशः समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति ॥ एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकारः भा०-देशादेशेन विकल्पयितव्यमिति । टी–इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः । पर्यायास्तिकमिति नपुंसकलिङ्गप्रकान्तेर्विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति । अयमभिप्रायो भाष्यकारस्य लक्ष्यते-सकलादेशसंयोगाचतुर्णा निष्पत्तिरिति सुज्ञानाः, तत्रायद्वितीयविकल्पसंयोगे तुर्यविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चेति । प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः स्यादपर्यायादेशविकल्पाः स्ति चावक्तव्यश्चेति । द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः स्यान्नास्ति चाक्तव्यश्चेति । प्रथमद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते । तदाह-देशादेशेनेत्यादि । , 'किं कारणं पुनर्भाष्यकृता' इति क-ख-पाठः । २ — विकलीकृतं ' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518