Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 441
________________ ४१० तत्वार्थाधिगमसूत्रम् [ अध्याय: ५ प्रतिपादिते गम्यत इदं - द्रव्यक्षेत्रकालभावान्तरसम्बन्धितया नास्त्यात्मा । यदि च सर्वद्रव्यत - essत्मा स्याद्, आत्मैवासौ न भवेत्, द्रव्यत्ववत्, सर्ववृत्तितया वा, स्वद्रव्यादिना सत्त्वम् तद्रूपतया च सर्वकालसम्बन्धित्वाद् व्योमवन्मनुष्यभावे वा समस्तनारकोदिभावप्रसङ्ग एकान्तवादिनाम्, अतोऽवश्यं स्वद्रव्यादित्वेनैवास्तित्वमभ्युपेयम्, नान्यद्रव्यादित्वेन ॥ ततश्च स्वैरस्तित्वात् परैश्च नास्तित्वात् स्यादस्ति स्याना - स्तीति, स्वपरमात्रभावाभावो भयाधीनत्वादात्मास्तित्वस्य यथैव स्वास्तित्वादस्तीत्युच्यते, तथैव परनास्तित्वान्नास्तीत्यपि वाच्यम्, न च प्रकारान्तरमस्ति किञ्चिदेकान्तवादिनां यदाश्रयणेनावष्टम्भो दृढप्रतिबन्धः स्यादिति नास्तित्वमस्तित्वानपेक्षमत्यन्तशून्यं वस्तु प्रतिपादयेदन्वयाप्रतिलम्भाद् अस्तित्वमपि नास्तित्वानपेक्षं सर्वरूपं वस्तु गमयेत् व्यतिरेकाप्रतिलम्भात्, न च सता सर्वाभावरूपेण सकलभावरूपेण वा भूयते, अतः सर्वदाऽस्तित्वं नास्तित्वसापेक्षं नास्तित्वं चास्तित्वापेक्षमेवात्मलाभमासादयति, एवं चात्मनि नाप्रसक्ता घटादिसत्ता निषिध्यते अर्थात् प्रकरणाद् वा, घटादिसत्तानिषेधश्चात्मनो धर्मस्तदधीनत्वाअस्तिनास्तिरूपता दात्मखभावस्य स एव च परेण विशेष्यमाणत्वात् परपर्याय उच्यते, गव्यनश्वत्ववत्, आत्मना विशेष्यमाणत्वादात्मपर्यायः, स्वपरविशेषणायत्तं हि वस्तुस्वरूपप्रकाशनम्, अनेकान्तवादे च स्यादस्त्यात्मेत्यादिभिः सप्तभिर्वाक्यैरभिधीयते वस्तु प्रत्येक क्रियापदप्रयोगेणार्थपरिसमाप्तेः, आत्मेति द्रव्यवाची विशेष्यत्वात्, अस्तीति गुणाभिधायी विशेषणत्वात्, शब्दशक्तिस्वाभाव्याच्च तथा प्रतीतेः, बुद्धयारूढस्योपचरितसत्ताकस्य मुख्यसत्त्वविशेषणत्वेनोपात्तस्य धर्मिण उपादानादसत्त्वे इव, स्याच्छब्दस्तु द्रव्यधर्मलिङ्गसङ्ख्या'भेदवियुक्तत्वादसिप्रकृतिर्विध्यादिविषयस (म ) द्विभक्तिप्रथमपुरुषैकवचनान्तप्रतिरूपको निपातो विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थष्वृत्तिः, तस्य चानेकान्तावद्योतनमेवार्थो विवक्षितः, केवलस्य च सामान्य विषयत्वावद्योतकत्वाद् विवक्षितार्थप्रतिपादनाय द्रव्यधर्म विशेषोपादानं, तन्नान्तरीयकत्वात्, निपातानां चापरिमितत्वादनेकान्तद्योतकतया विवक्षितत्वादिति, स्याच्छब्देनानेकान्ताभिधानादाक्षेपेऽपि सप्तभयाः पुनर्भेदेनोपादानं विशिष्टार्थप्रतिपादनाय, यथा वृक्षशब्देन सामान्यविषयेणाक्षेपेऽपि धवादीनां विशेषप्रतिपिपादयिषया धवादिशब्दोपादानम्, एवमेतदपि दृश्यम्, भेदाप्रतिपत्तेर्विवक्षित भेदप्रतिपादनाय भेदपरिमाणनियमाभिधानाय वा सामान्यलक्षणप्रपञ्चव्याख्यानाय वा सङ्क्षेपव्यासाभिधानम्, तत्रास्तित्वनास्तित्वैकान्तनिवारणाय प्रथमद्वितीयौ, एकान्तरूपस्यार्थस्यावस्तुत्वादिति । तृतीयविकल्पाभिधित्सया भाष्यकृदाहभा०- अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा । टी० - युगपदात्मन्यस्तित्वनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणाभिधातुमविवक्षिते वाच्यं न जातुचित् सदात्मतत्स्वम सदात्मतत्त्वमिति वा । वाशब्दो विकल्पार्थः, , 'कादिप्रसङ्ग' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518