Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 440
________________ सूत्र ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् ४०९ दासः, तत्रायोगोऽसम्बन्धस्तदवच्छेदफलं विशेषणमस्त्येव घट इत्यादावएवकारस्यार्थ- स्तिना सह घटस्यायोगो नास्त्ययोगमात्रं व्यवच्छिद्यते,यथा चैत्रो धनु त्रैविध्यम् धरः, चैत्रे हि धनुर्धरतायामाशङ्कयमानायां चैत्रो धनुर्धर एवेत्यवधार्यमाणेनान्येभ्यो धनुर्धरता व्यावर्तते,तद्वदिहापि प्रकृतवस्तुनीति, स्यात् त्वेष दोषो यद्यन्ययोगव्यवच्छेदेन विशेषणं क्रियेत, यथा पार्थो धनुर्धरः पार्थे धनुर्धरतायां प्रतीतायां तादृशी किमन्यत्राप्यस्तीति चिन्तायां पार्थ एव धनुर्धरो नान्य इति प्रतिविशिष्टधनुर्धरतायां सहान्यैोगो व्यवच्छिद्यत इति । कचिदत्यन्तायोगव्यवच्छेदो नीलमेव सरोजमित्यत्र, न सरोज सकलद्रव्यभाविनीलगुणमात्मसात्करोति, तथा नीलत्वमपि न समस्तसरोजाक्षेपि, अत एवोभयव्यभिचारादुभयविशेषणत्वम्, अत्र च नीलतायाः किलात्यन्तमयोगो व्यवच्छिद्यते, नात्यन्तमयोगः-असम्बन्धः सरोजेन सह नीलतायाः । सर्वत्र चैवकारस्य विवक्षावशात् साक्षादप्रयोगेऽपि व्यवच्छेदार्थप्रतीतिरतो निरन्वयदोषाभावस्तदयोगव्यवच्छेदेन विशेषणादिति । अश्रोच्यते-सर्वमेतद् व्यामोहभाषितं दुर्बुद्धेरुद्धरतः परप्रयुक्तदूषणानि, यस्सादयोगे व्यवच्छिश्रेऽपि प्रागेतन( १ )दोषसम्पातो न निवर्तते, अयोगव्यवच्छेदेन ह्यस्तिना योग इष्यते, सच योगः किं सामान्यरूपेणास्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति सर्वथा प्राक्तनदोषप्रसङ्गः, व्यवच्छेदोऽप्यस्तित्वसामान्यायोगस्य वाऽस्तित्वविशेषायोगस्य वा उभयायोगस्य था ? यद्यस्तित्वसामान्यायोगव्यवच्छेदः, ततोऽस्तित्वविशेषायोगव्यवच्छेदाभावप्रसङ्गस्तस्मिँश्याव्यवच्छिन्ने सर्वास्तित्वविशेषस्वभाव आत्मादिः प्रसक्तः,अथास्तित्वविशेषायोगव्यवच्छेद इष्टः, एवं तहस्तित्वसामान्ययोगव्यवच्छेदाभावप्रसङ्गः,ततःप्रागेतनः व्यवच्छेदेऽपि स्याद्वादः दोषवातस्तदवस्थः, अथोभयायोगव्यवच्छेदः, तथापि सामान्यविशेषा स्तित्वोभयस्वभावः आत्मादिरभ्युपेतः स्यात, ततश्च निष्फलमवधारणं, सामान्यास्तित्वेन चास्त्यात्मादिविशेषास्तित्वेन च, ततश्च स्वगतविशेषास्तित्वेनास्ति परगतविशेषास्तित्वेन नास्ति वस्तु, स्यादस्ति स्यानास्तीति सिद्धम्, अनेकान्तरूपमेव समस्तवस्तु व्यवहारास्पदतामानयन्तस्तत्कारिणस्तद्वेषिणश्च केचिज्जायन्ते जगत्यकारणाविष्कृतमत्सरप्रसराः खल दुर्जनाः । यत्राप्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषो व्यवच्छिद्यते न योगसामान्यम्, यादृक् पार्थे धनुधेरताताहगन्यत्र नास्तीति । अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगो नास्ति योग एव सर्वथा, अथवा कदाचिदस्ति कदाचिन्नास्तीत्येवं च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्यः॥ प्रकृतमनुस्रियते-सर्वथा सामान्यविशेषरूपत्वात् प्रकारवदस्तित्वमतः सामान्यास्तित्वेनास्ति विशेषास्तित्वेन नास्त्यात्मा स्यादस्ति स्यानास्तीति,तथा यदस्ति तनियमेन द्रव्यक्षेत्रकालभावरूपेणैवात्मलाभ लभते, यथा-आत्मा जीवद्रव्यतया, क्षेत्रत इह क्षेत्रतया, कालतो वर्तमानकालसम्बन्धितया, भावतो ज्ञानदर्शनोपयोगमनुष्यगतितयेति १' इति विशिष्ट. ' इति क-ख-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518