Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 432
________________ ४०१ सूत्रं ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् नानेकपर्यायोपघ्नास्तद्विपरीतपर्यायाश्रयाश्च तत्र तत्र व्यवह्रियन्ते व्यवहारार्थिभिः, अतो मातृकापदमेवास्ति व्यवहारयोग्यत्वान, न शेषमिति व्यवहारनयाभिप्रायः । सङ्ग्रहव्यवहारौ च प्रत्येकं शतभेदत्वादनेकमुखौ, व्यवहार इति चान्वर्थसंज्ञत्वादेवास्य नयस्य, अवहरणमवहारः, कस्य ? एकसत्त्वस्य, केन ? विशेषेण-घटादिना, नानासत्त्वेन लोकयात्रासिद्धेः॥ ___अधुना द्रव्यास्तिकमातृकापदास्तिकाभिहिताविशिष्टवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेना. वध्रियन्ते पर्यायनयेन, अनवरतोत्पादविनाशप्रवाहमात्रमेव वस्तु सकलव्यवहारनिवन्धनम्, न तु स्थितमस्ति किश्चित्, आत्मभावलक्षणानन्तरविनाशित्वान्न किञ्चित् पर्यायवादिमतम् केनचिदेकेनाभिन्नेन स्थित्यंशेनावबध्यमानं सम्भाव्यते, तत्राशेषस्थूल सूक्ष्मोत्पादकलापस्य प्रतिपादकमुत्पन्नास्तिकमुत्पन्नेऽस्तिमति, नानुत्पन्ने वान्ध्येयव्योमोत्पलादाविति, योऽप्यात्मलाभक्षणोऽस्ति सन्नित्येवं विधशब्दवाच्यः सोऽप्यभूतप्रादुभावः प्राग नासीत् पश्चाल्लब्धात्माऽस्ति सन्नित्यादिशब्दव्यपदेश्यः, न तु भूत्वाऽस्तिमनुभवनस्तीत्याख्यायते',क्रियायाः कृतकत्वात् पचत्यादिवत्, कर्तुश्च तत्सम्बन्धेन कर्तृत्वप्रतिलम्भस्य कृतकत्वान्न स्थितसत्ताकमेकमस्ति किश्चित्, प्रथमक्षणविलक्षणाश्चोत्तरोत्तरक्षणाः सन्तानाकारेणोपजनमासादयन्ति । तथा पर्यायास्तिकमित्युत्पत्तिमतोऽवश्यं विनश्वरत्वाद् यावन्त उत्पादास्तावन्त एव विनाशा इति विनाशेऽस्तिमति पर्यायास्तिकम् , पर्यायो भेदो विनाशलक्षणः सोऽस्त्येवोत्पन्नस्येति, पर्यायो हि विनाशपर्यायः, यथा प्राप्तपर्यायो देवदत्त इति, समस्तवि साप्रयोगापादितविनाशसूचनाकारि च पर्यायास्तिकम् । अपरे तु वर्णयन्त्यन्यथा उत्पन्नास्तिकं पर्यायास्तिकं च, तत्र सामग्रीग्रहणादेकद्रव्यभाविनां पर्यायाणां कालतोऽर्थतो वाऽप्यव्यभिचारिणां यत्र व्यपदेशस्तदुत्पन्नास्तिकं सिध्यमानसिद्धवत्, यथा सिध्यमानः सिद्ध इति कालतोऽर्थतश्चाव्यभिचारी शब्दः, तथैकद्रव्यभाविनां पयोयाणामयुगपदवृत्तीनां युगपदग्रहणात सामग्रीग्रहणाच्च यत्र व्यपदेशः स पर्यायदेशः, यथा स्पर्शादिमतां पुद्गलानामिन्द्रियैर्युगपदग्रहणादपि व्यपदेशः क्रियते स्पर्शरसगन्धवर्णवन्तः पुद्गला इति । अपरे व्याचक्षते " तेषामुत्पादसम्भक्ते-रुत्पन्नास्तिकदेशना । उत्पद्यमानाः पयर्यायाः, पर्यायास्तिकमुच्यते ॥" तेषामिति । द्रव्यमातृकापदास्तिकभेदानामुत्पादयोगादुत्पन्नास्तिकदेशना, पर्यायनयस्यानुत्पन्नेन व्यवहाराभावात् तदानीमेव सन्, न ह्यनुत्पन्नाः केचिद् द्रव्यादयः सन्ति, अतीतानागतवर्तमानेष्वविशेषात्, यदा पुनरुत्पादसमावेशिनो वर्तमानकालावच्छिन्नाः पर्याया विवक्ष्यन्ते तदोत्पद्यमानावस्थायां पर्यायास्तिकमुच्यते । अन्ये त्वभिदधति-न मातृकापदास्तिकं द्रव्या. स्तिकाद् भिद्यत इति द्रव्यनयपरिग्रहः, पर्यायास्तिकं च नोत्पन्नास्तिकाद् विविच्यत इति 'लाभे क्ष० ' इति क-पाठः । १ . भूयांसि म० ' इति क-व-पाठः । ३ अत्र 'क्रियते' इत्यधिकः क-पाठः । ४'णादिक' इति क-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518