Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
धर्मादीनामन्यतमैकविवक्षायां सत् मातृकापदम्, द्वित्वविवक्षायां सती मातृकापदे, त्रित्वादिविवक्षायां सन्ति मातृकापदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्वस्वभावार्पणयैव सन्ति नान्यथा । धर्मास्तिकायस्वलक्षणं य (तू त ) न जातुचिदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं वेत्यादिना विकल्पत्रयेण सङ्ग्रहीतं धर्मादि पञ्चविधम्, सकलभेदजालप्रसूति हेतुत्वान्मातृकापदं मातृकास्थानीयमुच्यते धर्मादि, नातोऽन्यदस्तीति,
मातृकापदं वेत्यादिना तामेव परस्परव्यावृत्तिमभिव्यनक्ति, यदि धर्मादिपञ्चकव्यतिरेकि किञ्चिद् भवेत् ततस्तन्मातृकापदं वेत्यादिव्यपदेशो युज्येत, संज्ञास्वालक्षण्याद्यभावात् तच्चासत्, तस्मात् धर्म एवाधर्मलक्षणाद् व्यावर्तमानस्तेनाधर्म स्वलक्षणरूपेणासन्नित्युच्यते । एवं शेषेष्वपि भावना विधेया ॥
४०६
सर्व सद्गतिविशेषाणां प्रसव हेतुत्वाद् धर्मास्तिकायो मातृकापदम् स एव च सर्वसत्स्थितिविशेषप्रसवव्यावृत्यपेक्षया अमातृकापदम् एवं द्विवचनबहुवचने विभावनीये । तस्मान द्रव्यास्तिकादि किञ्चिन्मातृकापदव्यतिरेकि विद्यते, स्वभावासंक्रान्त्या तु परस्परापोह - भावतः पदार्थव्यवस्थानम्, स चापोहः सल्लक्षणव्यवच्छेदेनैको यथा प्रमाणं प्रमेयं च सद्, यत्र प्रमाणं न प्रमेयं तदसदेव, अपरो धर्म्यन्तरस्य धर्म्यन्तरोत्पन्नवैशिष्ट्ये नापोहः, तद्यथा - जीवोऽजीवो न भवत्यश्वो गौर्न भवतीति, तथाऽनपोहश्चेतनाचेतनयोर्द्रव्यादेशात्, परस्परापोहे च द्रव्यादेशात् सर्वेषां धर्मादीनामनपोह इत्येवं सामान्य विशेषाने कधर्मत्वाद् धर्मादयोऽपोहानपोहरूपाः सर्वे मातृका पदास्तिकम्, एवं द्रव्यार्थनयाभिप्रायो द्रव्यास्तिकमातृकापदास्तिकाभ्यामाख्यातः । पर्यायार्थनयावसरे त्विदमुच्यते
भा०—उत्पन्नास्तिकस्य उत्पन्न वा उत्पन्ने वा उत्पन्नानि वा सत् । अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् ॥
टी० - उत्पन्नास्तिकस्येत्यादि । पर्यायार्थस्य मूलमृजुसूत्रः, स च प्रत्युत्पन्नं वर्तमानक्षणमात्रं सर्वमेव धर्मादिद्रव्यं प्रतिजानीते, क्षणं क्षणं प्रत्युत्पन्नं पूर्वपूर्वक्षणविलक्षणम्, इदमेव च सतो लक्षणं यदुत्पद्यते प्रतिक्षणम्, उत्पादो हि वस्तुनो लक्षणम्, अनुत्पादार्थ व्योमोस्पलादयो न कथञ्चिल्लक्ष्यन्ते तत्रात्मनां तावत् प्रतिक्षणमपरापरज्ञानदर्शन क्रियाद्युत्पादो लक्षणम्, पुद्गला वर्ण- गन्ध-रस- स्पर्श-शब्द-संस्थान तम-श्छायाद्युत्पादलपर्यायास्तिके उत्पन्ना° क्षणाः, धर्माधर्माकाशांस्तु गन्तृस्थात्रवगाहमानगतिस्थित्यवगाहाका - ऋजुसूत्रः रोत्पादतः प्रतिक्षणमन्ये चान्ये च भवन्तीति, एषां च वर्तमानक्षण एव सत्यः, तस्मादेकमभिन्नं सकलभेदहेतुर्मातृकापदं नाम किञ्चिन्नास्ति व्यवहारनयपुरस्कृतम् । अपि च-व्यवहारोऽपि लौकिकः प्रत्युत्पन्नक्षणसाध्य एव, सतोऽर्थक्रियासामर्थ्यात् सँथ वर्तमानक्षणः, क्रान्तानागतक्षणयोरसत्वान्नार्थक्रियासामर्थ्य सम्भाव्यते,
१ 'अलोकाकाशेऽपि अगुरुलघुपर्यायाणामनुसमयमुत्पादोऽस्त्येव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518