Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 419
________________ ३८८ तार्थाधिगमसूत्रम् [ अध्याय: ५ न द्वादिनं प्रति विनाशे च सहेतुके प्रतिपादिते यदुक्तं मुद्गरादेरसामर्थ्यं विनाशकरणं प्रति तदयुक्तम् । अस्त्येव हि सामर्थ्य तद्भावभावितया कपालाद्युत्पत्तेः, विकल्पत्रयं च सुकुमारप्रज्ञेन प्रमाणविचारपरिक्लेशासहिष्णुना यथाकथञ्चिदुपन्यस्य प्रथमविकल्पोऽतिस्थूल इत्येवोपेक्षितो मनागागतत्र पेण, तथा द्वितीयविकल्पः स्वभावान्तरं किल क्रियते विनाशहेतुना, घटतादवस्थ्ये तु सकलघट निष्पाद्य जलधारणादिक्रियाप्रसङ्ग इति शापदानमुदघोषि । एतच्च विकल्पद्वयं न जाने किं प्रथमतरमेव मायासूनुनोत्खातमुत्पन्नसर्वार्थज्ञानेनाहोस्विद् भिक्षुवरधर्मकीर्तिनैव स्वयमुत्प्रेक्षितमिति यत् सत्यं विस्मिताः स्मोऽनया वाचोयुक्त्या, किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमिति । यद् विनाशहेतुना क्रियते तदेवैकं न व्यपादेशि गलितधिषणेन, घटविनाशहेतुर्घविनाशमेव करोति स चोक्तोऽवस्थान्तरापत्तिलक्षणः प्रथममेव, अभावविकल्पेऽपि पर्युदासाभ्युपगमे किल विवक्षिताद् भावादन्यं भावमेव करोति, ततश्च पूर्ववद् व्यति - रेकाव्यतिरेकविकल्पानतिक्रमः, व्यतिरेकाव्यतिरेकविकल्पौ च विहितप्रतिक्रियौ प्राग् विकल्पाभासत्वाच्चायुक्तौ, प्रसज्यप्रतिषेधपक्षे त्वभावं करोति, भावं न करोतीति वाक्यार्थः, तदेत दयुक्तम्, अस्मत्प्रक्रियानवबोधात्, जैनी प्रक्रिया द्रव्यपर्यायावुभौ वस्तु भावाभावस्वभावं, चाभावः कश्चिद् भावान्निर्लुठितः सम्भवति यं विनाशहेतुः करिष्यति, न चास्ति काचित् क्रिया द्रव्यादत्यन्तव्य तिरिच्यमानस्वभावा यस्याः प्रसज्यप्रतिषेधेन निवारणा क्रियेत, द्रव्यमेव हि तथोद्भूतपरिणामं क्रियाव्यपदेशमश्नुते द्रव्यनयस्य, पर्युदासो हि विधिरूपत्वाद् द्रव्यास्तिकः, इतरः पर्यायनयः प्रतिषेधमात्रत्वात्, एतौ च परस्परापेक्षावेव च वस्तु नैककौ, ततश्च विभागाभावादसद्विकंल्पता । अपिच भावो वस्तु परिनिष्पन्नं, तस्य कुतः कारणेनाभिसम्बन्धः ? पूर्वोत्पादार्थत्वात् करोतेः, अथ प्रैष्टुं कुर्वित्युपचारः, तथापि यत् किञ्चिद् भावस्य करेणम्, अभावश्चापरिनिष्पन्नमवस्थान्तररूपं वस्तु, तन्निष्पादनाय यत्तः क्रियते तच्च नात्यन्तमसन्न सर्वथा सदित्यभावविशिष्टस्यैव वस्तुनो वस्तुत्वात् । यदप्युक्तं - वैयर्थ्याच्च न विनाशहेतुरिति तदप्यसमीक्षिताभिधानम्, अस्मत्प्रक्रियानवगमात् । वैत्रसिकः प्रायोगिकश्च द्विधा विनाशः, तत्र प्रायोगिकः कादाचित्कत्वात् पटादिवत् सहेतुकः, न च दृष्टमपहोतुं शक्यं, प्रमाणतः पदार्थस्वरूपावबोधात्, आत्मलाभसमनन्तरमेव च सर्वथा विनश्यन्ति पदार्था इति न किञ्चिदस्मिन्नर्थे प्रमाणमस्ति, कालान्तरावस्थायिनि च विनाशे प्रत्यक्षबुद्धेर्व्यापारः । यच्चावाचि - प्रकाशादयो लब्धात्मलाभाः प्रकाशादिस्वभावतयां स्वजन्मैवापेक्षन्ते, नापरं हेत्वन्तरम् एतदप्यसङ्गतम्, यदि प्रकाशादय उत्पन्नाः पुनरुत्पत्तौ हेत्वन्तरं नापेक्षन्त इति वाक्यार्थः ततः किं केन सङ्गतम् ? न ह्युत्पन्नः पदार्थस्तेन रूपेण पुनर्हेतुमभिलपति, लब्धात्मलाभः कालान्तरे हेतुमपेक्ष्य विनश्यतीति जार्गद्यामहे ।। ननु च स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति येनोत्पत्तिसमन १ लक्षणात् प्रथम' इति क ख पाठः । २ 'कल्पासत्वात्' इति क ख पाठः । ३ कल्पना ' इति J < ४ पृष्टं ' इति ग-पाठः । ५ ' कारणं' इति क - ख- पाठः । ६ 'जगद्यामहे ' इति ग-पाठः । क- पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518