Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 425
________________ ३९४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ ज्यते, यथा प्रकाशकाः कृशानुभास्करादयः प्राकाश्यं वस्त्वन्तराभावविशिष्टमेव प्रकाशयन्ति, एवं प्रमाणमपि वस्तुपरिच्छेद हेतुत्वेन व्याप्रियमाणं वस्त्वन्तराभावविशिष्टमेव प्रकाशयति । प्रमाणं च यथावस्थितवस्तुस्वभावग्राहि । ततः प्रमाणपरिच्छिन्नेनार्थेन यथाप्रयोजनमर्पणादिव्यवहारः । तस्मात् सच्चीसच्चैकमेव वस्तु, स्वरूपार्पणयोत्पादः सन् स्थितिविनाशाभावविशिष्टग्रहणादसन, एवं स्थितिविनाशावपि वाच्यौ । एवं हि त्रिविधग्रहणं समर्थितं भवति ॥ तथा स्वात्मापरित्यागार्पणान्नित्यम्, उत्पादव्ययार्पणात् तदेवानित्यम्, स्थित्यादयश्च सङ्ग्रहादेकीभावाद् वस्तु, न स्थितिरहितावुत्पादविनाशी, नाप्युत्पादव्ययशून्या स्थितिः, अतः संसर्गलक्षणं वस्त्वेकमेव नित्यं चानित्यं च ॥ ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति त्रिस्वभावमेव सत्वेनावधृतम्, भाष्यकारस्तु सच त्रिविधमपीत्येव विवृण्वन्नेकैकस्य सत्त्वं प्रतिपादयति, नैष दोषः, अविभक्तेऽपि वस्तुनि स्वभावत्रयाख्यानंमन्योन्यापरित्यागद्वारेणैव क्रियते, अन्यथा कथं कथ्येत प्रज्ञापनागोचरः १ । स्थित्यादयो हि परस्परावियोगिनः सर्वदा सदसदात्मका भेदाभेद. लक्षणास्तेषु सत्त्वप्रज्ञापना न विरुध्यते, न ह्येकदेशोऽसद्वस्तुनो भवति पटादेस्तन्त्वादिः, अथ नित्यं चेति किमर्थमुच्यते, सग्रहणादेव तद्गृहीतेः पुनने किश्चित् फलमस्ति सद्भहणेनैव ध्रौव्यांशस्य लक्षितत्वात्, सच्च त्रिविधमपीत्येतावदेवाभिधेयमिति, अत्रोच्यते-सत्यमेतदेवम्, तथाऽप्यर्थविशेषप्रतिपिपादयिषया पुनर्नित्यग्रहणं, स विशेपो भाव्यते यदि ध्रौव्यांश एव नित्यः स्यात् न समस्तं वस्तु तत उत्पादव्ययावप्यनित्यौ न वस्तु सकलम् , एवं चान्याधारं नित्यत्वमन्याधारं चानित्यत्वं स्याद् अनिष्टं चैतद् व्यधिकरणत्वात्, यथा प्रवचनवाह्यानां नित्यं व्योमाऽनित्यो घट इति, अत्राप्येवं स्यादन्यन्नित्यमन्यचानित्यम्, इप्यते तु यदेव नित्यं तदेवानित्यमिति, तत्राऽमुना पुनर्नित्यग्रहणेन निरंशं वस्त्वर्यत एतद्विपक्षण चानित्यं समस्तमेव वस्तूच्यते निर्विभागत्वात्, एवं हि तत् प्रज्ञाप्यते केवलं श्रोतृवुद्धिव्युत्पत्तये स्थित्यंशोऽयमिमावुत्पादव्ययांशाविति बुद्धथा विभज्यते, न तु परमार्थतोऽस्ति विभाग इत्येवमैकाधिकरण्यम् । यथाऽऽह " अभिन्नांशं मतं वस्तु, तथोभयमयात्मकम् । प्रतिपत्तेरुपायेन, नयभेदेन कथ्यते ॥ १॥" यत तुक्तं नित्यता ह्युत्पादव्ययौ विरुणद्ध्युत्पादव्ययौ च नित्यतां विरुन्धाते, तत् प्रपश्चयापोद्यते, कः पुनर्विरोधशब्दार्थः १। किं ययोरेकवावस्थानं न दृश्यते तो विरुद्धावथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशो वा तौ विरुद्धाविति ? किश्चातः, यदि प्राच्यः पक्षः कदाचिदपि यावेकत्र न दृष्टावेवं सति वध्यघातकभावलक्षणस्तावदाहिनकुलयोरन्युदकयोर्वा न विरोधः, यतः संयोगे सत्येककालयोरहिनकुलयोरमिजलयोर्वा स्थितयोर्वि १. सस्वासस्वैकमेव ' इति क-ख-पाठः। २. सर्वात्मका ' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518