Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
३९८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः५ स्थानादयः सहभुवो युगपदवस्थायिनः, स्थूलाः सूक्ष्माश्च साधनानि द्रव्याणां पर्यायाणां साध्यानि च कार्यवशाद् व्यापृताश्चोदकाद्याहरणादिषु मृत्पिण्ड-शिवकविध्यम् स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करा-पांशुत्रुटिपरमाणवः क्रम.
भुवः, नहि मृदादिसामान्यव्यतिरेकेण पिण्डादिधमो भवितुमुत्सहन्ते, न ह्यङ्गुलिभेदेनर्जुकुटिलतयोः सम्भवः, सैव हि साङ्गुलिः स्वाँस्तु धर्मान् पारम्पर्यमात्रप्रतिलब्धवृत्ती क्रमेणोन्नमयति, मयूराण्डकरसवदुपारूढस्वरूपाख्येति वचनात् । एत एवासहावस्थायिनः सूक्ष्माः स्थूलाश्चापेक्षया नित्यानित्यादयः साध्याः साधनानि चाव्यापृता उदकाद्याहरणादिषु, तेषां को नामायं विरोधः १ ॥ ननु सहानवस्थानम्, तन्न, सहोत्पादावस्थानदर्शनादेकद्रव्यवृत्तित्वाच्च, द्रव्यमेव चक्षुरादिग्रहणापदेशविशेषाद् रूपादिव्यपदेश्यमेकपुरुषपिसुपुत्रत्वादिवत्, न च रूपादीनां समुदायैकरूपताऽभ्युपगमनीया, रूपग्रहणे रसादिग्रहणप्रसगादिन्द्रियान्तरवैयथ्येसकरादिदोपप्रसङ्गाचीन चाभावता, प्रमाणाभावात् प्रसिद्धिविरोधाच्च। स्वलक्षणविरोधोऽपि नास्त्येव, सामान्यविशेषात्मैकलक्षणत्वात् स्याद्वादिपरिगृहीतस्य वस्तुनः, जात्यन्तरत्वाच नरसिंहवदेकान्तवादिपरिकल्पिताद् वस्तुन इति । स्यात् तु क्रमजन्मनां धर्माणामसहावस्थायिनां देवमनुष्यादीनां मृत्पिण्डशिवकादीनां च विरोधोऽसहावस्थानलक्षणः, सोऽपि द्रव्यास्तिकनयप्राधान्यादभेदे विवक्षिते पर्यायाणां द्रव्यव्यतिरेकेणानभ्युपगमान्नास्तीति न कश्चिद विरोधोऽस्ति स्याद्वादिनः, तमःप्रकाशच्छायातपशीतोष्णविरोधोदाहरणनिरास उक्तविधिनाऽवगम्यः, द्रव्यार्थतो नित्याः पुद्गलाः तमस्तया च क्रमजन्मानः परिणमन्ते पर्यायाः, सामान्यस्याभिन्नत्वादेकरूपा एवेति कः केन विरुध्यते १ । इत्थमर्थस्य सामान्यविशेषात्मैकरूपत्वेऽन्योन्यापेक्षित्वेऽनेकान्तात्मकत्वे एकान्तवादिपरिकल्पिताज्जात्यन्तरत्वे चन कश्चिद् दोषः, तथा स्थित्यंशस्य नित्यत्वादुत्पादव्ययानित्यत्वादुभयस्याभिन्नस्वभाववस्तुतायां कथमिदं घटते नित्यानित्ययोरेकपरिग्रहोऽपरत्वागमनान्तरीयकः एकत्यागश्वापरपरिग्रहाविनाभावीति, प्रत्यक्षादिप्रमाणबाधितत्वादुन्मत्तकप्रलापमात्रमेतदवसीयत इति, तस्मान्न परिकल्पितविषयो विरोधो ( न परिकल्पितापरिकल्पितविषयो ) न सकलस्वलक्षणविषयो नापि सामयिकः, किं तर्हि ? पर्यायनयाभिप्रायेण क्रमजन्मपर्यायविषयः, स चैक एवासहावस्थानलक्षणः, सोऽपि द्रव्यार्थनयाभिप्रायेण नैवास्तीति भावितम् । एवं चैकवस्तुविषये सदसती नित्यानित्ये च अर्पितानर्पितसिद्धेरिति व्यवस्थितम् ॥ द्वितीयसम्बन्धाभिधानेऽपि सङ्गतार्थमेव भाष्यमुक्तेन विधिना, एतमेवार्थमधुना भाष्येण प्रपञ्चयति
भा०-अर्पितव्यावहारिकमर्पितव्यावहारिकं चेत्यर्थः ॥ टी-अर्पितव्यावहारिकमित्यादिना, प्रक्रान्तं त्रिविधं सन्नित्यं च, तदपेक्षया १ चिहितो भागः क-ख-योर्नास्ति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518