Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
________________
सूत्र २९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३७९ सत्यामपि धर्मभेदप्रसिद्धेः समस्तव्यवहारसम्प्रसिद्धिः, कारकशक्तिवत् । कारकशक्तयो शेकद्रव्यातिरिक्तत्वात् सङ्कीर्णा अपि कार्यभेदाद् भेदमनुपतन्त्य एवोपलभ्यन्ते विशिष्टव्यवहारहेतवः तद्वदत्रापि द्रष्टव्यम् । न च सामान्यविशेषव्यतिरिक्तः कश्चिदनयोः सामान्यविशेषयोराधारभूतो द्रव्यांशोऽपरः समस्ति परपरिकल्पितः, तुल्यातुल्यांशव्यतिरेकेणानुपलभ्यमानत्वाद् द्रव्यांशस्य, यदि तावदसावन्यस्माद् व्यावृत्ततयाऽवगम्यते ततो विशेष एव, अथानुवृत्तिद्वारेण परिच्छिद्यते सामान्यांशः स्यात्, न चान्यथा प्रत्ययप्रवृत्तिर्या द्रव्यमालम्बेत, अतो वस्त्वेकमनेकाकारम्, आकाराश्चानुवृत्तिप्रत्ययावसेयाः केचिंदपरे तु व्यावृत्त्याकारबुद्धयाऽध्यवसातव्या इति ॥ न चावश्यं सतो भवितव्यमाधारण, परिकलय तावत् तस्यैव त्वत्परिकल्पितद्रव्यांशस्य क आधारः ? को वा व्योमादेरित्यलं प्रसङ्गेन । व्यवस्थितमिदमुभयस्वभावं सकलम् । तसान केवलस्य कचिदस्ति मृद्रव्यस्य ग्रहणम्, उपपद्यते चायमभेदप्रत्ययः, न च भ्रान्तः, सामान्यांशालम्बनत्वाद्, अतः सर्वे साधु स्याद्वादप्रक्रियायाम् । एतेन रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमिति प्रत्युक्तम् , उभयस्वभावत्वाद् वस्तु सत् सामान्यांशालम्बनभेदज्ञानम् , न पुनःसामान्यशून्यरूपादिभेदसमुदयमात्रालम्बनम्, समुदायस्य तत्त्वान्यत्वाभ्यामनिवेचनीयत्वेनानिधोयमाणस्वभावस्यापारमार्थिकत्वात् । यदप्युक्तं-"तेष्वेव हि तन्त्वादिषु तथासनिविष्टेषु पट इत्यादिबुद्धिः प्रवर्तते, यथा भक्तसिक्थोदकेषु तथासनिविष्टेषु काञ्जिकबुद्धिः" इति, कथं पुनः सनिविष्टेष्विति निरूप्यम् ॥ ननु च पटाद्याकारेणेति किमत्र निरूप्यते ? क पुनरसावन्यत्र पटः प्रसिद्धो यस्याकारेण तन्तवः सन्निविशन्ते, यथा पार्थीकारोऽभिमन्युरिति, कश्चायं सन्निवेशः? यदि संस्थानमेव वृत्त-व्यस्र-चतुरस्रा-यत-परिमण्डलभेदमिष्यते युग्मा-युग्म-प्रतर घनविकल्पकम, एवं सति प्रागस्माभिः प्रत्यपादि प्रपञ्चतः सङ्घातभेदेभ्य उत्पद्यन्ते स्कन्धास्तद्भावलक्षणपरिणामवशात. स च तादृशः परमार्थतोऽस्त्येव समुदायः, अथान्यः कोऽपि समुदायः, स निरूपणीयः, काञ्जिकाद्यपि परिणामान्तरापत्त्यैव सिद्धमार्हतानाम्, न भक्तसिक्थादिमात्रतया। यच्चोक्तम्-'रूपाधग्रहे घटादिबुद्धेरभावात्" इति, एतदपि जैनान् प्रति न किश्चित् , उभयस्वभावत्वाद् वस्तुनो विभागाभावात्, रूपादिस्वरूपोल्लेखेनैव सामान्यांशः प्रतीयते, वह्निरूपस्पर्शपरिणतायोगोलकवत् , तथा वनविपङ्क्त्यादयोऽपि सन्निवेशविशेषाः पुद्गलानां सामान्यविशेषस्वभावाः समासादितक्रमपरिणतयः तत्त्वतोऽभ्युपेयन्ते, नोपादायप्रज्ञप्तिमात्रम्, यदि च संस्थानमर्थान्तरं रूपादिभ्यस्तदपि परमार्थसत् ततो रूपादिवदन्यानपेक्षमेव गृह्येत, अथ रूपस्पर्शमात्रम्, एवं तर्हि तदनेकं रूपस्पर्शवत् प्रसक्तम्, एवं चानिष्टप्राप्तेरसमञ्जसता, यदि रूपसन्निवेशविशेषो वृत्तं स्पशेनेन न गृह्येताविषयत्वाद् रूपवत्, न वा स्पशेविशेष वक्षुषा गृह्येतोक्तन्य यात्, भेदे च द्वे वृत्ते गृह्येयातामन्यत्वाद् रूपस्पर्शवत्, एवं तन्त्वादिषु तथास्थितेवित्यादि विचार्यमाणं विशी.
१ प्रसिद्धेः ' इति क-ख-पाठः । २ ‘मालम्बतो वस्तु ' इति क-पाठः । ३ 'क्वचिदपरे' इति क-ख-पाठः । ४ 'नोपादेय ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518