Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

Previous | Next

Page 412
________________ सूत्र २९) स्वोपज्ञभाष्य टीकालङ्कृतम् ३८१ ज्यमानत्वात्, पटपरिणामकाले च द्रव्यात्मना तन्तुसद्भावात् पर्यायात्मना चाभावात, सर्वेषामवयवावयविसमुदायसमुदायिगुणगुणिनामन्यत्वानन्यत्वमुभयनयापेक्षमेवाभिरूपधियो धिनोति, तस्मादनेकान्तवादिनः सूक्ष्मवादरप्रतिघाताप्रतिघातभेदसङ्घातकार्यकारणैकत्वान्यत्वादिविचप्रकारपरिणाममभ्युपयतो न किञ्चिदवद्यमाढौकते ॥ एतेन द्रव्यपर्यायनयद्वयव्यावर्णनेन किमेकोऽवयवी वारम्भकावयवेषु प्रत्यवयवं वर्तते आहोस्विद् एकदेशे नेत्येषोऽपि विकल्पः सिद्धसाध्यतादिबहुदोषत्वादपास्तो वेदितव्यः, तस्मान व्यतिरिक्तोऽवयव्यस्ति निभाल्यमानः, समस्ति च द्रव्यांशः स्थितिलक्षणोऽन्वयी, तदपेक्षावुत्पादविनाशौ स्तः, अतः स्थित्युत्पादविनाशस्वभावमेव सर्वमर्थक्रियासमर्थ,न स्थिति निरपेक्षावुत्पादविनाशाविति । यदप्युक्तम्कल्पनामात्रं कारणं कार्यमिति प्रतीत्य प्रत्ययमात्रत्वात्, तदप्ययुक्तम्, करोतीति कारणं कार्यान्तरनिवर्तनसमर्थम्, क्रियायाः कारणान्तरापेक्षात्, कल्पना च बहिरङ्गार्थशून्यं विज्ञानमानं शब्दमात्रं वा, न च तस्य घटादि कार्यान्तरनिष्पादने शक्तिरस्ति, न च विज्ञानमात्रमेव ग्राह्यग्राहकलक्षणमर्थशून्यमस्तीति प्रतिपत्तुं शक्यम्, प्रमाणाभावात् , न च भ्रान्तिमानं कार्यकारणव्यवस्था, भ्रान्तिबीजाभावात्, नापि शून्यता, प्रतिषेधप्रतिषेध्यादिसद्भावात् । व्यवहारतः सत्त्वमर्थानां न परमार्थत इति चेत् प्रतिषेधोऽपि तर्हि व्यवहारमात्रत्वादसन्नित्यप्रतिहतसद्भावात् कथं न भावा भवेयुः ? न च रासभशृङ्गमसत् स्वतः परिकल्पितेन रूपेण मृत्खननादिकायोर्थमाचेष्टमानमिष्टं दृष्टं वा ॥ दीघेता च यदि स्वतोऽसती हस्वबुद्धेः कारणं भवत्येवं सति व्योमारविन्दकर्णिकाऽपि हेतुरसत्त्वात् स्याद् हस्वताबुद्धेः, यदि चासत्प्रतीत्याऽसदेवोत्पद्यत तथा सति शशविषाणं प्रतीत्य . खरविपाणमपि स्यात्, अथास्त्येव वस्तुनो दीर्घता, न तर्हि प्रतीत्यप्रत्यदीर्घन्दस्वत्वसिद्धिः व यमानं सर्वम्, सतीमेव दीर्घतामाश्रित्य -हस्वताधियोऽभ्युपगमात् दीर्घ हस्वबुद्धयोश्चायोगपद्यादयुक्ता प्रतीत्यसमुत्पत्तिः, न चासतः कारणभावः, यदि च सर्वे प्रतीत्यैव सिद्धयति नाप्रतीत्य, ततः प्रतीत्यसिद्धिरपि प्रतीत्यसिद्धिप्रभावाऽभ्युपेया, तथा चाभ्युपगम विरोधः, तस्मादस्ति धौव्यांशलक्षणात् द्रव्यसत्ता, नापेक्ष्यसिद्धा, कारणमिति या व्यपदिश्यते, कारणसिद्धौ च कार्यसिद्धिरपि तदविनाभावात् , अन्यथा कारणतैव न स्यादसम्भाविततद्गत्वात् , पर्यायास्तूत्पादादयः केचिदपेक्ष्यसिद्धाः प्रयोगजाः पटादयः, केचिदनपेक्ष्यसिद्धाः स्वाभाविकाः परमाणुनीलताभ्रेन्द्रचापविद्युदादयः, एवं च स्वरूपसिद्धेः कारणकार्यप्रत्ययावसदर्थविषयौ न भवत इति सिद्धम् ।। भाष्याक्षरानुसरणमधुना समातन्यते-उत्पादश्च व्ययश्च उत्पादव्ययौ , समस्यैकत्वेन निर्दिष्टौ, ध्रुवतीति ध्रवं-शाश्वतं तद्भावो ध्रौव्यं स्थिरता, उत्पादव्यउत्पादादि यध्रौव्याणि, युक्तं योगः-समुदायः सत् अस्तीति सद्, विद्यमानमि त्यर्थः । एतदुक्तं भवति-उत्पादादयो नैककाः सत, किं तर्हि ? युक्तं 'पभ्युपेयवे' इति क-पाठः । पदानाम Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518