________________
सूत्र २९) स्वोपज्ञभाष्य टीकालङ्कृतम्
३८१ ज्यमानत्वात्, पटपरिणामकाले च द्रव्यात्मना तन्तुसद्भावात् पर्यायात्मना चाभावात, सर्वेषामवयवावयविसमुदायसमुदायिगुणगुणिनामन्यत्वानन्यत्वमुभयनयापेक्षमेवाभिरूपधियो धिनोति, तस्मादनेकान्तवादिनः सूक्ष्मवादरप्रतिघाताप्रतिघातभेदसङ्घातकार्यकारणैकत्वान्यत्वादिविचप्रकारपरिणाममभ्युपयतो न किञ्चिदवद्यमाढौकते ॥ एतेन द्रव्यपर्यायनयद्वयव्यावर्णनेन किमेकोऽवयवी वारम्भकावयवेषु प्रत्यवयवं वर्तते आहोस्विद् एकदेशे नेत्येषोऽपि विकल्पः सिद्धसाध्यतादिबहुदोषत्वादपास्तो वेदितव्यः, तस्मान व्यतिरिक्तोऽवयव्यस्ति निभाल्यमानः, समस्ति च द्रव्यांशः स्थितिलक्षणोऽन्वयी, तदपेक्षावुत्पादविनाशौ स्तः, अतः स्थित्युत्पादविनाशस्वभावमेव सर्वमर्थक्रियासमर्थ,न स्थिति निरपेक्षावुत्पादविनाशाविति । यदप्युक्तम्कल्पनामात्रं कारणं कार्यमिति प्रतीत्य प्रत्ययमात्रत्वात्, तदप्ययुक्तम्, करोतीति कारणं कार्यान्तरनिवर्तनसमर्थम्, क्रियायाः कारणान्तरापेक्षात्, कल्पना च बहिरङ्गार्थशून्यं विज्ञानमानं शब्दमात्रं वा, न च तस्य घटादि कार्यान्तरनिष्पादने शक्तिरस्ति, न च विज्ञानमात्रमेव ग्राह्यग्राहकलक्षणमर्थशून्यमस्तीति प्रतिपत्तुं शक्यम्, प्रमाणाभावात् , न च भ्रान्तिमानं कार्यकारणव्यवस्था, भ्रान्तिबीजाभावात्, नापि शून्यता, प्रतिषेधप्रतिषेध्यादिसद्भावात् । व्यवहारतः सत्त्वमर्थानां न परमार्थत इति चेत् प्रतिषेधोऽपि तर्हि व्यवहारमात्रत्वादसन्नित्यप्रतिहतसद्भावात् कथं न भावा भवेयुः ? न च रासभशृङ्गमसत् स्वतः परिकल्पितेन रूपेण मृत्खननादिकायोर्थमाचेष्टमानमिष्टं दृष्टं वा ॥
दीघेता च यदि स्वतोऽसती हस्वबुद्धेः कारणं भवत्येवं सति व्योमारविन्दकर्णिकाऽपि हेतुरसत्त्वात् स्याद् हस्वताबुद्धेः, यदि चासत्प्रतीत्याऽसदेवोत्पद्यत तथा सति शशविषाणं प्रतीत्य
. खरविपाणमपि स्यात्, अथास्त्येव वस्तुनो दीर्घता, न तर्हि प्रतीत्यप्रत्यदीर्घन्दस्वत्वसिद्धिः
व यमानं सर्वम्, सतीमेव दीर्घतामाश्रित्य -हस्वताधियोऽभ्युपगमात् दीर्घ
हस्वबुद्धयोश्चायोगपद्यादयुक्ता प्रतीत्यसमुत्पत्तिः, न चासतः कारणभावः, यदि च सर्वे प्रतीत्यैव सिद्धयति नाप्रतीत्य, ततः प्रतीत्यसिद्धिरपि प्रतीत्यसिद्धिप्रभावाऽभ्युपेया, तथा चाभ्युपगम विरोधः, तस्मादस्ति धौव्यांशलक्षणात् द्रव्यसत्ता, नापेक्ष्यसिद्धा, कारणमिति या व्यपदिश्यते, कारणसिद्धौ च कार्यसिद्धिरपि तदविनाभावात् , अन्यथा कारणतैव न स्यादसम्भाविततद्गत्वात् , पर्यायास्तूत्पादादयः केचिदपेक्ष्यसिद्धाः प्रयोगजाः पटादयः, केचिदनपेक्ष्यसिद्धाः स्वाभाविकाः परमाणुनीलताभ्रेन्द्रचापविद्युदादयः, एवं च स्वरूपसिद्धेः कारणकार्यप्रत्ययावसदर्थविषयौ न भवत इति सिद्धम् ।। भाष्याक्षरानुसरणमधुना समातन्यते-उत्पादश्च व्ययश्च उत्पादव्ययौ , समस्यैकत्वेन
निर्दिष्टौ, ध्रुवतीति ध्रवं-शाश्वतं तद्भावो ध्रौव्यं स्थिरता, उत्पादव्यउत्पादादि
यध्रौव्याणि, युक्तं योगः-समुदायः सत् अस्तीति सद्, विद्यमानमि
त्यर्थः । एतदुक्तं भवति-उत्पादादयो नैककाः सत, किं तर्हि ? युक्तं 'पभ्युपेयवे' इति क-पाठः ।
पदानाम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org