________________
२८० वस्वार्थाधिगमसूत्रम्
[ अध्यायः ५ चते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् स्वभेदानां प्राक तदान्वयिन्योश्च(१) मृदन्वयाविच्छेदादेकम्, न पुना रूपादि समुदायमात्रम, अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूग्मपास्तमसद्विकल्पचतुष्टयम् , किं तत् , एवं समूहिनः परिणामिनो वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं कारणमेव वा विद्यते न कार्यमिति, एष च
सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयथादिरर्थः स्वसकार्यकारणानेकान्तत्वम्
: मये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिनां परिणामाभ्यु
- पगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमनोत्तरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानैकान्तव्या. सिप्रपञ्चप्रदर्शनार्थः । तथाहि-आलोकविशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्डयादावपि सामान्यविशेषभावे सति विशेषणविशेष्यभावात् । यच्चोक्तमवधारणं रूपादिग्रहे सत्येव भावात, तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षा( ? )लमावहति । यदप्यारेको प्रमाणानुभवमन्तरेण स्मृतिरनुपपति पश्चात् परिजिहीर्षताऽभ्यधायि विकल्पितेऽपि ह्यर्थे स्मृतिर्दृष्टेति, तदप्यसत्, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वात, सर्वप्रकारमसतः संन्यवहारायोग्यत्वात्, बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषास्वदभिधानानि तदालम्बनाश्च प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र नान्यथा, समुदायस्य च प्रतिपादितवग्तुत्वान्न निर्मूलविकल्पत्वम्, बुद्धिभेदाच्चान्यत्वमेकान्तत एवेति पूर्वमेव प्रत्यस्तम् । नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जनेन्द्राणां द्रव्यास्तिकनयाभिप्रायेग ग्रहणात्, सदद्रव्यतया भेदाभावात्. पर्यायतः साव्यापरिमाणाकारभेदसद्भावात् भिन्नाभिन्नस्वभावैव शेमुषी. सा च भेदाभेदस्वभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठा प्रतिलभत इति न किश्चिदनिष्टम् । यच्चोक्तम्-"तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव. अन्यत्वस्य सर्वथा निषिध्यमानत्वात्, यतो विनाऽप्यवयविना संयोगमात्रे तदर्थान्तरभूतसङ्घातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं, विनापि तेनोपलभ्यमानत्वादेकादशपलेनेव, इतवावयवव्यतिरेकेणापत्नवयवी, अनभिभूतगु
णत्वे सत्यायवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात्, तुरगअषयविनो
वारणाद्यवयवव्यतिरेकेण सेनावत् । यदि च स्याद् रूपादयोऽपि च गुणा ऽनन्यत्वम्
__ गृह्येरनवयविनः पृथक्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमाने घभिभवादनुपलभ्यमानगुणत्वं तारकादिषु दृष्टमित्यनै कान्ति फत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतौ पटपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चामावाद्, अतीतानागतपरिणामानामसत्त्वाइव्यवहार्यत्वाद् वर्तमानपर्याय एव परमार्थतोऽस्त्युपयु
१. निरूपाख्य' इति क-पाठः । २ ' ग्रहणानान्या' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org