________________
३८२ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ योगः-परस्परापेक्षः समुदाय एवोत्पादादीनां, न सदित्यस्य ध्वनेर्विषयः, यथा वृक्षा वनं समुदिता एव नैककाः, एवमुत्पादव्ययध्रौव्याणि योगः सदिति, अथवा समाध्यर्थस्य युजेर्युक्तं-समाहितं त्रिस्वभावं सत् उत्पादव्ययधौव्याण्येव त्रयः स्वभावाः सम्यगाहिता:परस्परप्रतिबद्धाः सदिति । अन्ये तूत्पादव्ययध्रौव्ययुक्तमिति गृह्णते, किं पुनस्तदुत्पादादिभियुक्तमिति निरूपणीयम् , उत्पादादित्रयव्यतिरेकेण द्रव्याभावान विद्मः किं तद् युज्यमानमुत्पादादिभिः । अपरे समाधानमाक्षेपस्याभिदधते ॥ युक्तं विशेष्यते उत्पादव्ययधौव्यैः समुदितैर्यो योगस्तद् युक्तं सत्, नान्याभ्यामुत्पादव्ययाभ्यामित्यादिको योगः सदिति, योगश्च सामान्येनोत्पादादीनामनादिविशेषविवक्षया सादिः, ध्रौव्यं चेति पृथक् प्राधान्यख्यापनाय सामान्यस्य भाष्यकृतोदचारि, यतः सत्यन्धयांशे तदाश्रयावुत्पादविनाशौ सङ्गच्छेते, अन्यथा कस्योत्पादः ? कस्य चानुत्पन्नस्य तेनाकारेण व्ययः१॥ अपरे तु ध्रौव्यं चेत्यसमस्ततामन्यथा वर्णयन्ति
त्रैलक्षण्ये सतः सादिः, कथं सन्न त्रिलक्षणम् । ध्रौव्यं तल्लक्षणत्वेन, द्रव्यार्थेन त्रिषदितम् ॥ १॥ अत एव पृथग् वृत्तौ, ध्रौव्यं चेति प्रदर्शितम् । सत् त्रिरूपं त्रयं त्वेतत् , सम्भवेन विकल्पते ॥२॥ आधयोर्नियमादन्त्य-मन्त्ये तु भजनाऽऽद्ययोः। स्वतः परनिमित्तौ तु, स्यातामप्युपचारतः ॥३॥ अस्ति नोत्पद्यते चैक-मेकमुत्पद्यतेऽस्ति च । नास्ति चोत्पद्यते चैक, नास्ति नोत्पद्यते परम् ॥ ४ ॥ आकाशपरमाणू च, प्रदीपान्त्यशिखादि च ।
आकाशकुसुमं चेति, चतुष्टयमुदाहृतम् ॥ ५ ॥ सक्षेपतः कारिकापञ्चकस्यायमर्थः-पुद्गलजीवेपूत्पादव्यययोरन्यादृशत्वाद् ध्रौव्यस्य पञ्चत्वेऽप्यविशेषाद् वृत्तौ पृथप विवरणम् , अन्यथा धर्माधर्माकाशेष्यधिगमोपायविषयत्वेनोत्पादप्रच्युती, अन्यथा च जीवपुद्गलेष्विति द्रव्यक्षेत्रकालभावापेक्षात् , अन्यथा प्रयोगजावुत्पादव्ययौ, अन्यथा च धर्मास्तिकायादिषु द्रव्यस्वभावापेक्षमप्रयोगजौ ज्ञानविषयत्वोत्पादप्रच्युतिमात्रलक्षणी, नहि तेषु पौरुषेयो विस्रसा वा प्रयोगः क्रमत इति, अतः परप्रत्ययावुत्पादविनाशौ त्रयाणाम् , जीवपुद्गलानां तु प्रयोगविस्रसाभ्यामुत्पादव्ययौ सम्भवतः, ध्रौव्यं तु सर्वेष्वविशिष्टम् , एतत् सतो लक्षणं कचिदुपचारतः कचित् परमार्थत इति, तदेतत् पौर्वापर्येणालोच्य कतप्रज्ञैरागमज्ञैरेव व्याख्यास्यते निर्विरोध, वयं तत्रानिपुणाः किश्चिदेवस्थूलकुशलतयाऽभिदध्महे-चशब्दः समुचितौ वर्तते, तेनोत्पादादयः प्रत्येकं सतो लक्षणं, किं तर्हि १ समुदिता एव वस्तुतत्वं भवन्तीति, एनमेवार्थमुत्तरेण भाष्येण प्रदर्शयति-यदुत्पद्यते यद् व्येति यच
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org